________________
पद्मपुराणम् ।
३५०
नवोत्तरशतं पर्व। ग्रामस्यैतस्य सीमांते वनस्थल्यामुभौ समम् । अन्योन्यानुरतावास्तां श्रृगालौ विकृताननौ ॥५५॥ आसीदत्रैव च ग्रामे चिरवासः कृषीवलः । ख्यातः प्रामरको नाम गतोऽसौ क्षेत्रमन्यदा ॥५६॥ पुनरेमीति संचित्य भानावस्ताभिलाषिणि । त्यक्तोपकरणं क्षेत्रे संगतः क्षुधितो गृहम् ॥ ५७ ॥ तावदंजनशैलाभाः प्लावयंतो महीतलम् । अकस्मादुन्नता मेघा ववर्षनक्तवासरम् ।। ५८ ॥ प्रशांताः सत्प्ररात्रेण रात्रौ तमसि भीषणे । जंबुको तौ विनिष्क्रान्तौ गहनाददितौ क्षुधा । ५९॥ अथोपकरणं क्लिन्नं कर्दमोपलसंगतम् । तत्ताभ्यां भक्षितं सर्व प्राप्ती चोदरवेदनाम् ॥ ६० ॥ अकामनिजरायुक्तो वषोनिलसमाहतौ । ततः कालं गतौ जातौ सोमदेवस्य नंदनौ ॥ ६१ ॥ स च प्रामरकः प्राप्तोऽन्वेषकोऽपश्यदेतको । निर्जीवौ जंबुकौ तेन गृहीत्वा जनितौ दृती ॥६२॥ अचिरेण मृतश्चासौ सुतस्यैवाभवत्सुतः । जातिस्मरत्वमासाद्य मूकीभूय व्यवस्थितः ॥ ६३ ॥ पुत्रः पितुरिति ज्ञात्वेत्याहरामि कथं त्वहम् । स्नुषां च मातुरित्यस्माद्धेतोौनमुपाश्रितः ॥६४॥ यदि न प्रत्ययः सम्यक्ततत्तिष्ठत्यसावयम् । मध्ये स्वजनवर्गस्य द्विजो मां द्रष्टुमागतः ॥६५॥ आहूय गुरुणा चोक्तः स त्वं प्रामरकस्तथा । आसीस्त्वमधुना जातस्तोकस्यैव शरीरजः ॥६६॥ संसारस्य स्वभावोऽयं रंगमध्ये यथा नटः । राजा भूत्वा भवेद्धृत्यः प्रेष्यश्च प्रभुतां व्रजेत् ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org