________________
पद्मपुराणम् ।
नवोत्तरशतं पर्व ।
मुनिः स चावधिज्ञानात्समस्तं जगदीक्षते । अध्युवास बहिर्घाममुद्यानं साधुसम्मतम् ॥ ४२ ॥ ततश्चागमनं श्रुत्वा श्रमणानां महात्मनाम् । शालिग्रामजनो भूत्या सर्व एव विनिर्ययौ ॥ ४३ ॥ अपृच्छतां ततो वह्निवायुभूती विलोक्य तम् । काय जनपदो याति सुसंकीर्णः परस्परम् ॥४४॥ ताभ्यां कथितमन्येन मुनिः प्राप्तो निरंवरः । तस्यैष बंदनां कर्तुमखिलः प्रस्थितो जनः ॥४५॥ अग्निभूतिस्ततः क्रुद्धः सह भ्रात्रा विनिर्गतः । विवादे श्रमणान्सर्वान् जयामीति वचोऽवदत् ४६ उपगम्य च साधूनां मुनीन्द्रं मध्यवर्तिनम् । अपश्यद्हताराणां मध्ये चन्द्रमिवोदितम् ।। ४७ ॥ प्रधानसंयतेनैतौ प्रोक्तौ सात्यकिना ततः । एवमागच्छतां विप्रो किंचिद्विधिनुतं गुरौ ॥४८॥ उवाच प्रहसन्ननिर्भवद्भिः किं प्रयोजनम् । जगादागतयोरत्र दोषो नास्तीति संयतः ४९ ॥ द्विजेनैकेन च प्रोक्तमेतान् श्रमणपुंगवान् । वादे जेतुमुपायाती दूरे किमधुना स्थितौ ॥ ५० ॥ एवमस्त्विति सामर्षों मुनीन्द्रस्य पुरः स्थितौ । ऊचतुश्च समुन्नद्धौ किं वेत्सीति पुनः पुनः ॥५१॥ सावधिभगवानाह भवंतावागतौ कुतः । ऊचतुस्तौ न ते ज्ञातौ शालिग्रामाकिमागतौ ॥ ५२ ॥ मुनिराहावगच्छामि शालिग्रामादुपागतौ । अनादिजन्मकांतारे भ्रमन्तावागतौ कुतः ॥ ५३ ॥ तौ समूचतुरन्योऽपि को वेत्तीति ततो मुनिः। जगाद शृणुतां विप्रावधुना कथयाम्यहम् ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org