________________
३७
पद्मपुराणम् ।
एकसप्ततितम पर्व। इंद्रनीलालिका भित्तीः पश्यंतो द्वारमोहिनः । आकाशाशंकया पेतुं स्फटिकच्छन्नसद्मसु ॥ २५ ॥ शिलाताडितमूर्धानः पतिता रभसात्पुनः । परमाकुलतां प्राप्ता वेदनाकूणितेक्षणाः ॥ २६ ॥ कथंचिज्जातसंचाराः कक्षांतरमुपाश्रिताः । व्रतो रभसा सक्ता नभः स्फटिकभित्तिषु ॥ २७ ॥ क्षुण्णांघ्रिजानवस्तीव्रललाटस्फोटदुःखिताः । विनिवर्तिषवोऽप्येते न ययुर्निर्गमं पुनः ॥ २८ ॥ इंद्रनीलमयीं भूमि स्मृत्वा कांचित्समानया । बुद्धया प्रतारिताः संतः पेतुर्भूतलवेश्मसु ॥ २९॥ तत उद्गतभूच्छेदशंकया शरणांतरे । भूमिष्वथेंद्रनीलीषु ज्ञात्वा ज्ञात्वा पदं ददुः ॥३०॥ नारी स्फटिकसोपानानामग्रगमनोद्यताम् । व्योम्नीति विविदुः पादन्यासान् तु पुनरन्यथा॥३१॥ तां पिपृच्छषवो यांतः शंकिताः पुनरंतराः । भित्तिष्वापतितास्तस्थुः स्फाटिकीषु मुवितलाः॥३२॥ पश्यंति शिखरं शांतिभवनस्य समुन्नतम् । गंतुं पुनर्न ते शक्ता भित्तिभिः स्फटिकात्मभिः॥३३॥ विलासिनि वदाध्वानमिति कश्चित्त्वरान्वितः । करे स्तंभसमासक्तामगृहीच्छालभंजिकाम् ॥३४॥ दृष्टं कश्चित्प्रतीहारं हेमवेत्रलताकरम् । जगाद शांतिगेहस्य पंथानं देशायाऽश्विति ॥ ३५ ॥ कथं न किंचिदुत्सितो ब्रवीत्येष विसंभ्रमः । इति घ्नन् पाणिना वेगादवापांगुलिचूर्णनम्॥३६॥ क्षत्रियोऽयमिति ज्ञात्वा हस्तस्पर्शनपूर्वकम् । किंचित्कक्षांतरं जग्मुरं विज्ञाय कृच्छ्रतः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org