SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २६ एकसप्ततितमं पर्व | १२ ॥ यस्यैषा ललिता कर्णे विमला दंतनिर्मिता । विराजते महाकांतिकोमला तलपत्रिका ॥ ग्रहणामिव सर्वेषां समवायो महाप्रभः । द्वितीयः श्रवणे चायं चपलो मणिकुंडलः ॥ १३ ॥ अपूर्वकौमुदीसर्गप्रवीणः सोऽयमुद्गतः । अंगदेंदुर्दशास्यस्य नगर्यां पश्य निर्भयः ॥ १४ ॥ किमनेनेदमारब्धं कथमेतद्भविष्यति । क्रीडेयं ललिताऽमुष्य निरर्था किन्तु सेत्स्यति ॥ १५ ॥ रावणालयबाह्यक्ष्मामणिकुट्टिमसंगताः । ग्राहवत्सर सोभिज्ञास्त्रासमीयुः पदातयः ॥ १६ ॥ रूपनिश्चलतां दृष्ट्वा निर्ज्ञातमणिकुट्टिमाः । पुनः प्रसरणं चक्रुर्भटाः विस्मयपूरिताः ॥ १७ ॥ पर्वतेन्द्रगुहाकारे महारत्नविनिर्मिते । गंभीरे भवनद्वारे मणितोरणभासुरे ॥ १८ ॥ अंजनाद्रिप्रतीकाशानिन्द्रनीलमयान् गजान् । स्निग्धगंडस्थलान् स्थूलदंतानत्यंत भासुरान् ॥ १९ ॥ सिंहबालांश्च तन्मूर्द्धन्यस्तांघ्रीनूर्द्धबालधीन् । दंष्ट्राकरालवदनान् भीषणाक्षान् सुकेसरान ॥ २० ॥ दृष्ट्वा पादचरास्त्रस्ताः सत्यव्यालाभिशंकिताः । पलायितुं समारब्धाः प्राप्ता विह्वलतां पराम् २१ ततऽगदकुमारेण तदभिज्ञेन कृच्छ्रतः । प्रबोधिताः प्रतीयते पदानि निदधुश्चिरात् ।। २२ । प्रविष्टाश्च चलन्नेत्रा भटाः शंकासमन्विताः । रावणस्य गृहं सैंहं पदं मृगगणा इव ॥ २३ ॥ द्वाराण्युल्लंघ्य भूरीणि परतो गंतुमक्षमाः । गहने गृहविन्यासे जात्यंधा इव बभ्रमुः ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy