________________
पद्मपुराणम्।
एकसप्ततितमं पर्व।
अथैकसप्ततितमं पर्व। शांतं यक्षाधिपं ज्ञात्वा सुतारात्मजसुंदरः । दशाननपुरीं द्रष्टुमुद्यतः परमोर्जितः ॥ १॥ उदारांबुददामं मुक्तामाल्यविभूषितम् । धवलैश्चामरैर्दीप्तं महाघंटानिनादितम् ॥ २ ॥ किष्किन्धकांडनामानमारूढो वरवारणम् । रराज मेघपृष्ठस्थः पौर्णमासीशशांकवत् ॥ ३ ॥ तथा स्कंदेंद्रनीलाद्या महर्द्धिपरिराजिताः । तुरंगादिसमारूढाः कुमारा गंतुमुद्यताः॥४॥ पदातयो महासंख्याश्चंदनार्चितविग्रहाः । तांबूलरागिणो नानामुंडमालामनोहराः ॥५॥ कटकोद्भासिवाद्यंताः स्कंधन्यस्तासिखेटकाः । चलावतंसकाश्चित्रपरमांशुकधारिणः ॥ ६॥ हेमसूत्रपरिक्षिप्तमौलयश्चारुविभ्रमाः । अग्रतः प्रसृता गर्वकृतालापाः सुतेजसः ॥ ७ ॥ वेणुवीणामृदंगादिवादित्रसदृशं वरम् । पुरो जनः प्रवीणोऽस्य चक्रे शृंगारनतेनम् ॥ ८॥ मंदस्तूर्यस्वनश्चित्रो मनोहरणपंडितः । शंखनिःस्वनसंयुक्तः काहलावत्समुद्ययौ ॥९॥ विविशुश्च कुमारेशाः सविलासविभूषणाः। लंकां देवपुरीतुल्यामसुरा इव चंचलाः ॥१०॥ महिन्ना पुरुणा युक्तां दशास्यनगरी ततः। प्रविष्टमंगदं वीक्ष्य जगावित्यंगनाजनः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org