________________
पनपुसणम् ।
सप्ततितम पर्व ।
तत्तुल्यविभवा भूत्त्वा येन नाथेन रक्षसाम् । समं युद्धं करिष्यामो विषमं जायतेऽन्यथा ॥९५ ॥ पूर्णभद्रस्ततोऽवोचदस्त्वेवं किं नु पीडनम् । कृत्यं नाद्यापि लंकायां साधो जीर्णतृणेष्वपि ॥९६॥ क्षेमेण रावणांगस्य वेदनाद्यविधानतः । क्षोभं कुरुत मन्ये नु दुःखं क्षुभ्यति रावणः ॥ ९७ ॥ एवमुक्तौ प्रसन्नाक्षौ तौ भव्यजनवत्सलौ । भक्तौ श्रमणसंघस्य वैयावृत्यसमुद्यतौ ।। ९८ ॥ शशांकवदनौ राजन् यक्षाणां परमेश्वरौ । अभिनंदितपद्माद्यावंतर्द्धि सानुगौ गतौ ॥ ९९ ॥
संप्राप्योपालंभ लक्ष्मणवचनात्सुलज्जितौ तौ हि ।
संजातो समचित्तौ निर्व्यापारौ स्थितौ येन ॥ १०॥ तावद्भवति जनानामधिका प्रीतिः समाश्रयासन्ना ।
यावनिर्दोपत्वं रविमिच्छति कः सहोत्पातम् ॥ १०१॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे सम्यग्दृष्टिदेवप्रातिहार्यकीर्तनं नाम सप्ततितम पर्व |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org