________________
पद्मपुराणम् ।
२३
सप्तमं ।
ईदृशस्य सतो भद्र किमेतत्सदृशं विभोः । तव सेनाश्रितैः पौरजनो ध्वंसमुपाहृतः ॥ ८२ ॥ यो यस्य हरते द्रव्यं प्रयत्नेन समार्जितम् । स तस्य हरते प्राणान् बाह्यमेतद्धि जीवितम् ||८३ || अनर्घ वज्रवैडूर्यविद्रुमादिभिराचिता । लंकापुरी परिध्वस्ता त्वदीयैराकुलांगना ॥ ८४ ॥ प्रौढेंदीवरसंकाशस्ततो गरुडकेतनः । जगाद तेजसा युक्तं वचनं विधिकोविदः ।। ८५ ।। एतस्य रघुचंद्रस्य प्राणेभ्योऽपि गरीयसी । महागुणधरी पत्नी शीलालंकारधारिणी ॥ ८६ ॥ दुरात्मना छलं प्राप्य हृता सा येन रक्षसा । अनुकंपा त्वया तस्य रावणस्य कथं कृता ||८७ || किं तेऽपकृतमस्माभिः किं वा तेन प्रियं कृतम् । कथ्यतां गुह्यकाधीश किंचिदप्यणुमात्रकम् ८८ कुटिलां भृकुटीं कृत्वा भीमां संध्यारुणेलिके । क्रुद्धोऽसि येन यक्षेन्द्र विना कार्य समागतः ८९ अर्धं कांचनपात्रेण तस्य दत्त्वातिसाध्वसः । कपिध्वजाधिपोऽवोचत् कोपो यक्षेन्द्र ! मुच्यताम् ९० पश्य त्वं समभावेन मद्बलस्य निजां स्थितिम् । लंकाबलार्णवस्यापि साक्षादीतित्वमीयुषः ॥ ९१ ॥ तथाप्येव प्रयत्नोऽस्य वर्त्तते रक्षसां विभोः । केनायं पूर्वकः साध्यः किं पुनर्बहुरूपया ॥ ९२ ॥ संक्रुद्धस्य मृधे तस्य स्खलंत्यभिमुखा नृपाः । जैनोक्तिलब्धवर्णस्य प्रवादे वादिनो यथा ॥ ९३॥ तस्मात्क्षमार्पितात्मानं क्षोभयिष्यामि रावणम् । यत्साधयति नो विद्यां यथा सिद्धिं कुदर्शनः ९४
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org