________________
२२
पद्मपुराणम् ।
सप्ततितमं पर्व । महान्तं क्रोधमापन्नः प्रभावपरमः सुधीः । यक्षेशः पूर्णभद्राख्यो मणिभद्रमिदं जगौ ॥ ६९ ॥ एतान्पश्य कृपामुक्तान् शाखाकेसरिकेतनान् । जानंतोऽपि समस्तानि शास्त्राणि विकृतिं गता७० स्थित्याचारविनिर्मुक्तान त्यक्ताहारं दशाननम् । योगसंयोजितात्मानं देहेऽपि रहितस्पृहम् ॥७१॥ प्रशांतहृदयं हंतुमुद्यतान्पापचेष्टितान् । रंध्रप्रहारिणः क्षुद्रान् त्यक्तवीरविचेष्टितान् ॥ ७२ ॥ मणिभद्रस्ततोऽवोचत्पूर्णभद्रसमोऽपरः । सम्यक्त्वभावितं वीरं जिनेंद्रचरणाश्रितम् ॥ ७३ ।। चारुलक्षणसंपूर्ण शांतात्मानं महाद्युतिम् । रावणं न सुरेन्द्रोऽपि नेतुं शक्तः पराभवम् ॥ ७४ ॥ ततस्तथाऽस्त्विति प्रोक्ते पूर्णभद्रेण तेजसा । गुह्यकाधिपयुग्मं तज्जातं विघ्नस्य नाशकम् ॥७५॥ यक्षेश्वरौ परिक्रुद्धौ दृष्ट्वा योद्धं समुद्यतौ । लज्जान्विताश्च भीताश्च गताः स्वं स्वं परामराः ॥७६॥ यक्षेश्वरौ महावायुप्रेरितोपलवर्षिणौ । युगांतमेघसंकाशी जातो घोरोरुगर्जितौ ।। ७७ ॥ तयोर्जघासमीरेण सा नभश्चरवाहिनी । प्रेरितोदारवेगेन शुष्कपर्णचयोपमा ॥ ७८ ॥ तेषां पलायमानानां भूत्वानुपदिकाविर्मा । उपालंभकृताकूतावेकस्थौ पद्ममागतो ॥ ७९ ॥ अभिनंद्य च तं सम्यक् पूर्णभद्रः सुधीर्जगौ । राज्ञो दशरथस्य त्वं श्रीमतस्तस्य नंदनः ॥८॥ अश्लाघ्येषु निवृत्तात्मा श्लाघ्यकृत्येषु चोद्यतः । तीर्णः शास्त्रसमुद्रस्य पारं शुद्धगुणोन्नतः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org