________________
पद्मपुराणम्।
सप्ततितमं पर्व ।
हस्तालंबितवित्रस्तवसनान्यातिविहला । गृहीतपृथुका तन्वी चकंपे गंतुमुद्यता ॥ ५६ ।। संभ्रमत्रुटितस्थूलमुक्तानिकरवर्षिणी । मेघरेखेव काचित्तु प्रस्थिता वेगधारिणी ॥ ५७ ॥ संत्रस्तहरिणीनेत्रा सस्तकेशकलापिका । वक्षः प्राप्य प्रियस्यान्या बभूवोत्कंपितोज्झिता ॥५८॥ एतस्मिन्नंतरे दृष्ट्वा लोकं भयपरायणम् । शासनांतर्गता देवाः शान्तिप्रासादसंश्रिताः ॥ ५९ ॥ स्वपक्षपालनोद्युक्ता करुणासक्तमानसाः । प्रातिहार्य द्रुतं कर्तुं प्रवृत्ता भावतत्पराः॥ ६॥ उत्पत्य भैरवाकाराः शांतिचैत्यालयादमी । गृहीतविविधाकल्पा दंष्ट्रालीसंकटाननाः॥६१ ॥ मध्याह्नार्कदुरीक्षाक्षाः क्षुब्धाः क्रोधोद्वमद्विषाः । दृष्टाधरा महाकाया नानावर्णमहारवाः ॥६२॥ देहदर्शनमात्रेण विकारैर्विषमैर्युताः । वानरांकबलं भंगं निन्युरत्यंतविह्वलम् ॥ ६३ ॥ क्षणं सिंहाः क्षणं वह्निः क्षणं मेघाः क्षणं द्विपाः। क्षणं सर्पाः क्षणं वायुस्ते भवंति क्षणं नगाः६४ अभिभूतानिमान् ज्ञात्वा देवैः शांतिगृहाश्रयः । जिनालयकृतावासास्तेषामपि हिते रताः ॥६५॥ देवाः समागता योद्धं विकृताकारवर्तिनः । निजस्थानेषु तेषां हि ते वसंत्यनुपालकाः ॥ ६६ ।। प्रवृत्ते तुमुले क्रूरे गीवार्णानां परस्परम् । आसीद्भावः स्वभावेऽपि संदेहो विकृति प्रति ॥ ६७ ॥ सीदतः स्वान् सुरान् दृष्ट्वा बलिनश्च परामरान् । कपिकेतूश्च संदृष्टान्पुनलंकामुखं स्थितान्॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org