________________
पद्मपुराणम् ।
सप्ततितमं पर्व ।
एवमाकुलतां प्राप्ते समस्ते नगरीजने । विह्वलेषु प्रवृत्तेषु निःस्वनेषु समंततः ॥ ४३ ॥ क्रुद्धो मयमहादैत्यः पिनद्धकवचो द्रुतम् । सन्नद्धैः सचिवैः सार्द्ध समुन्नतपराक्रमः ॥ ४४ ॥ युद्धार्थमुद्यतो दीप्तः प्राप लंकेशमंदिरम् । श्रीमान् हरिणकेशीव सुनाशीरनिकेतनम् ॥ ४५ ॥ ऊचे मंदोदरी तं च कृत्वा निर्भर्त्सनं परम् । कर्त्तव्यं तात नैतते दोषार्णवनिमज्जनम् ॥ ४६ ॥ समयो घोष्यमाणोऽसौ जैनः किं न त्वया श्रुतः । प्रसादं कुरु वांछा चेदस्ति स्वश्रेयसं प्रति ४७ दुहितुः स्वहितं वाक्यं श्रुत्वा दैत्यपतिर्मयः । प्रशांतः संजहारास्त्रं रश्मिचक्रं यथा रविः ॥ ४८ ॥ दुर्भेदकवचच्छन्नो मणिकुंडलमंडितः । हारराजितवक्षस्को विवेश स्वं जिनालयम् ॥ ४९ ॥ उद्वेलसागराकाराः कुमारास्तावदागताः । प्राकारं वेगवातेन कुर्वन्तः शिखरोज्झितम् ॥ ५० ॥ भग्नवज्रकपाटं च कृत्वा गोपुरमायनम् । प्रविष्टा नगरीं धीरा महोपद्रवलालसाः ॥ ५१ ॥ इमे प्राप्ता द्रुतं नश्यत् कयामि प्रवेिशालयम् | हा मातः किमिदं प्राप्तं तात तात निरीक्ष्यताम् ५२ त्रायस्व भद्र हा भ्रातः किं किं ही ही कथं कथम् । आर्यपुत्र निवर्त्तस्व तिष्ठ हा हा महद्भयम् ५३ एवं प्रवृत्तनिस्वानैराकुलैर्नगरीजनैः । संत्रस्तैर्दशवक्रस्य भवनं परिपूर्यताम् ॥ ५४ ॥ काचिद्विगलितां कांचीमाक्रम्यात्यंतमाकुला । स्वेनैव चरणेनांते जानुखंडं गता भुवि ।। ५५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org