________________
पद्मपुराणम् ।
३४७
नवोत्तरशतं पर्व । दृष्टा तामेव कुर्वन्ति तस्या एव सदा कथाम् । न च प्रत्यभिजाति तदा तामार्यिकां जनाः १६ एवं द्वाषष्टिवर्षाणि तपः कृत्वा समुन्नतम् । त्रयस्त्रिंशदिनं कृत्वा परमाराधनाविधिम् ॥ १७ ॥ उच्छिष्टं संस्तरं यद्वत्परित्यज्य शरीरकम् । आरणाच्युतमारुह्य प्रतीन्द्रत्वमुपागमत् ॥ १८ ॥ माहात्म्यं पश्यतेदृक्षं धर्मस्य जिनशासने । जंतुः स्त्रीत्वं यदुज्झित्वा पुमान् जातः सुरप्रभुः॥१९॥ तत्र कल्पे मणिच्छायासमुद्योतितपुष्करे । कांचनादिमहाद्रव्यविचित्रपरमाद्भुते ॥ २० ॥ सुमेरुशिखराकारे विमाने परिवारिणि । परमैश्वर्यसंपन्ना संप्राप्ता त्रिदशेन्द्रताम् ॥ २१॥ देवीशतसहस्राणां नयनानां समाश्रयः । तारागणपरीवारः शशांक इव राजते ॥ २२ ॥ इत्यन्यानि च साधूनि चरितानि नरेश्वरः । पापघातीनि शुश्राव पुराणानि गणेश्वरात् ॥ २३ ॥ राजोचे कस्तदा नाथो देवानामारणाच्युते । बभौ यस्य प्रतिस्पर्धी सीतेन्द्रोऽपि तपोबलात् २४ मधुरित्याह भगवान् भ्राता यस्य स कैटभः । येन भुक्तं महैश्वर्य द्वाविंशत्यब्धिसम्मितम् ॥२५॥ चतुःषष्टिसहस्रेषु किंचिदग्रेष्वनुक्रमात् । वर्षाणां समतीतेषु सुकृतस्यावशेषतः ॥ २६ ॥ इह प्रद्युम्नशांबौ तौ यावेतौ मधुकैटभौ । द्वारिकायां समुत्पन्नौ पुत्री कृष्णस्य भारते ॥ २७ ॥ षाष्टिवर्षसहस्राणि चत्वारि च ततः परम् । रामायणस्य विज्ञेयमन्तरं भारतस्य च ।। २८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org