________________
पद्मपुराणम् ।
३४५
नवोत्तरशतं पर्व । निदानशृंखलाबद्धा भ्राम्यंती दुःखसंकटम् । कृच्; स्त्रीत्वं विनिर्जित्य भुक्त्वा विविधयोनिषु ४८ अयं क्रमेण संपन्नो मनुष्यः पुण्यचोदितः । सिद्धार्थो धर्मसत्तात्मा विद्याविधिविशारदः ॥४९॥ तत्पूर्वस्नेहसंसक्तौ बालकौ लवणांकुशौ । अनेन संस्कृतौ जातौ त्रिदशैरपि दुर्जयौ ॥ ५० ॥
एवं विदित्त्वा सुलभौ नितान्तं जीवस्य लोके पितरौ सदैव । __कर्त्तव्यमेतद्विदुषां प्रयत्नाद्विमुच्यते येन शरीरदुःखात् ।। ५१ ॥ विमुच्य सर्वे भववृद्धिहेतुं कर्मोरुदुःखप्रभवं जुगुप्सम् ।।
कृत्वा तपो जैनमतोपदिष्टं रवि तिरस्कृत्य शिवं प्रयात ॥ ५२ ॥ इति श्रीपद्मपुराणे रविषेणाचार्यप्रोक्ते लवणांकुशपूर्वभवाभिधानं नामाष्टोत्तरशतं पर्व ।
अथ नवोत्तरशतं पर्व । पतिपुत्रान्परित्यज्य विष्टपख्यातचेष्टिता । निष्क्रान्ता कुरुते सीता यत्तद्वक्ष्यामि ते शृणु ॥१॥ तस्मिन् विहरते ? काले श्रीमान् सकलभूषणः । दिव्यज्ञानेन यो लोकमलोकं चावबुध्यते ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org