SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३४४ अष्टोत्तरशतं पर्व। अथ भोगविनिर्विण्णः कदाचिद्रतिवर्द्धनः । श्रमणत्वं भदन्तस्य सुभानोरंतिके ग्रहीत ॥ ३५ ॥ आसीत्तया कृतो भेदः सर्वगुप्तेन निश्चितः । ततो विद्वेष्यतां प्राप्ता परमं तस्य भामिनी ॥ ३६॥ नाहं जाता नरेन्द्रस्य न पत्युरिति शोकिनी । अकामतपसा जाता राक्षसी विजयावली ॥३७॥ उपसर्गे तयोदारे क्रियमाणतिरैरतः । सुध्याने कैवलं राज्यं संप्राप्तो रतिवर्द्धनः ॥ ३८ ॥ श्रामण्यं विमलं कृत्वा प्रियंकरहितंकरौ । अवेयकस्थितिं प्राप्तौ चतुर्थभवतः परम् ॥३९॥ शामल्यां दामदेवस्य तत्रैव पुरि नंदनौ । वसुदेवसुदेवाख्यौ गुण्यावस्थामिमौ द्विजौ ॥ ४० ॥ विश्वाप्रियंगुनामाने ज्ञेये सुवनिते तयोः। आसीद्ग्रहस्थभावश्च शंसनीयो मनीषिणाम् ॥ ४१ ॥ साधौ श्रीतिलकाभिख्ये दानं दत्त्वा सुभावनौ । त्रिपल्यभोगितां प्राप्तौ सस्त्रीकावुत्तरे कुरौ ४२ साधुसद्दानवृक्षोत्थमहाफलसमुद्भवम् । भुक्त्वा भोगं परं तत्र प्राप्तावीशानवासिताम् ॥ ४३ ।। भुक्तभोगौ ततश्युत्वा योधिलक्ष्मीसमन्वितौ । क्षीणदुर्गतिकर्माणौ जातौ प्रियहितंकरौ ॥ ४४ ॥ चतुष्कर्मभयारण्यं शुक्लध्यानेन वहिना । निर्दह्य निर्वृतिं प्राप्तो मुनीन्द्रो रतिवर्द्धनः ॥ ४५ ॥ कथितौ यो समासेन वीरौ प्रियहितंकरौ । अवेयकाच्च्युतावेतौ भव्यौ तौ लवणांकुशौ ॥ ४६॥ राजन् सुदर्शना देवी तनयात्यन्तवत्सला । भर्तृपुत्रवियोगार्ता स्त्रीस्वभावानुभावतः ॥ ४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy