________________
पद्मपुराणम् ।
३४३
अष्टोत्तरशतं पर्व।
एवं तं दूतमत्यस्य दूरं वाक्यमपास्य सः । अमूढो दुर्मतं यद्वस्थितः कर्त्तव्यवस्तुनि ॥ २२ ॥ स्वामिभक्तिपरस्यास्य कशिपोर्बलशालिनः । अभूदक्षिप्रगंतव्यममात्यं प्रति सर्वदा ॥ २३ ॥ सर्वगुप्तो महासैन्यसमेतः सह पार्थिवैः । दूतपचोदितः प्राप चक्रवर्तीव मानवान् ॥ २४ ॥ काधिदेशं तु विस्तीर्ण प्रविष्टः सागरोपमः । संधानं कशिपुन॑च्छद्योद्धव्यमिति निश्चितः ॥२५॥ रतिवर्द्धनराजेन प्रेषितः कशिपुं प्रति । दंडपाणियुवा प्राप्तः प्रविष्टश्च निशागमे ।। २६ ॥ जगौ च वर्द्धसे दिष्टया देवेतो रतिवर्द्धनः । कासौ कासाविति स्फीतः तुष्टः कशिपुरभ्यधात् २७ उद्याने स्थित इत्युक्ते सुतरां प्रमदान्वितः। निर्ययावर्षपायेन सोंतःपुरपुरःसरः ॥ २८ ॥ जयत्यजेयराजेन्द्रो रतिवद्धन इत्यभूत् । उत्सवो दर्शने तस्य कशिपोदानमानतः ॥ २९ ॥ संयुगे सर्वगुप्तस्य जीवतो ग्रहणं ततः । रतिवद्धनराजस्य काकंद्या राज्यसंगमः ॥ ३० ॥ विज्ञाय ते हि जीवन्तं स्वामिनं रतिवर्द्धनम् । सामंताः संगता मुक्ताः सर्वगुप्तं रणांतरे ॥ ३१ ॥ पुनर्जन्मोत्सवश्चक्रे रतिवर्द्धनभूभृतः । महद्भिदानसन्मानैर्देवतानां च पूजनैः ॥ ३२ ॥ नीतः प्रत्यंतवासित्वं मृततुल्यममात्यकः । दर्शनेनोज्झितः पापः सर्वलोकविगर्हितः ॥ ३३॥ कशिपुः काशिराजोऽसौ वाराणस्यां महाद्युतिः। रेमे परमया लक्ष्म्या लोकपाल इवापरः ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org