________________
पद्मपुराणम् ।
३४२
अष्टोत्तरशतं पर्व ।
अमात्यवनितारक्ता राजानं विजयावली । शनैरबोधयद्गत्वा पत्या कार्य समीहितम् ॥ ९ ॥ बहिरप्रत्ययं राजा श्रितः प्रत्ययमान्तरम् । अभिज्ञानं ततोऽवोचदेतस्मै विजयावली ॥१०॥ कलहं सदसि श्वोऽसौ समुत्कोपयिता तव । परस्त्रीविरतो राजा बद्धयेव पुनरग्रहीत् ।। ११ ॥ अब्रवीच कथं मेऽसौ परं भक्तोऽपभाषते । विजयावलि संभाव्यं कदाचिदपि नेदृशम् ॥ १२ ॥ ततोऽन्यत्र दिने चिह्न भावं ज्ञात्वा महीपतिः । क्षमानिवारणेनैव प्रेरयदुरितागमम् ॥ १३ ॥ राजा कोशति मामेष इत्युक्त्वा प्रतिपत्तितः । सामंतानभिनत्सर्वानमात्यः पापमानसः ॥१४॥ राजवासगृहं रात्रौ ततोऽमात्यो महेंधनैः । अदीपयन्महीशस्तु प्रमादरहितः सदा ॥ १५ ॥ प्राकारपुटगुह्येन प्रदेशेन सुरंगया । मायाँ पुत्रौ पुरस्कृत्य निःससार शनैः सुधीः ॥ १६ ।। यातश्च कशिपुं तेन काशीपुर्यां महीपतिम् । न्यायशीलं स्वसामन्तमुग्रवंशधुरंधरम् ॥ १७ ॥ राज्यस्थः सर्वगुप्तोऽथ दूतं संप्राहिणोद्यथा । कशिपो मां नमस्येति ततोऽसौ प्रत्यभाषत ॥१८॥ स्वामिघातकृतं (करो) हंता दुःखदुर्गतिभाक खलः। एवंविधो न नाम्नाऽपि कीर्त्यते सेव्यते कथम् ॥ सयोषित्तनयो दग्धो येनेशो रतिवर्द्धनः । स्वामिस्त्रीबालघातं तं न स्मर्तुमपि वर्त्तते ॥ २० ॥ पापस्यास्य शिरश्छित्वा सर्वलोकस्य पश्यतः । नन्वद्यैव करिष्यामि रतिवर्द्धननिष्क्रयम् ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org