________________
पद्मपुराणम् ।
३४१
अष्टोत्तरशतं पर्व। अपापो लभते लक्ष्मी स भाति च परं रखेः ॥ ६८ ॥ इति श्रीपद्मचरिते श्रीरविषणाचार्यप्रोक्ते प्रव्रजितसीताभिधानं नाम सप्तोत्तरशतं पर्व॥ १०७ ॥
अथाष्टोत्तरशतं पर्व। पद्मस्य चरितं राजा श्रुत्वा दुरितदारणम् । निर्मुक्तसंशयात्मानं व्यशोचदिति चेतसा ॥ १ ॥ निरस्तः सीतया दूरं स्नेहबंधः स तादृशः । सहिष्यते महाचर्या सुकुमारा कथं नु सा ॥२॥ पश्य धात्रा मृगाक्षौ तो मात्रा विरहमाहृतौ । सर्वर्द्धिातिसंपन्नौ कुमारौ लवणांकुशौ ॥ ३ ॥. तातावशेषतां प्राप्तौ कथं मातृवियोगजम् । दुःखं तौ विसहिष्येते निरंतरसुखैधितौ ॥ ४ ॥ महौजसामुदाराणां विषमं जायते तदा । तत्र शेषेषु काऽवस्था ध्यात्वेत्यूचे गणाधिपम् ॥ ५॥ सर्वज्ञेन ततो दृष्टं जगत्प्रत्ययमागतम् । इन्द्रभूतिजगौ तस्मै चरितं लावणांकुशम् ॥ ६ ॥ अभूच पुरिकाकंद्यामधिपो रतिवर्द्धनः । पत्नी सुदर्शना तस्य पुत्रौ प्रियहितंकरौ ॥ ७ ॥ अमात्यः सर्वगुप्ताख्यो राज्यलक्ष्मीधुरंधरः । ज्ञेयः प्रभोः प्रतिस्पर्धी वधोपायपरायणः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org