________________
३४०
पद्मपुराणम् ।
सप्तोत्तरशतं पर्व । अन्योचे सखि पश्येमं वैदेह्या पद्ममुज्झितम् । ज्योत्स्नया शशिनं मुक्तं दीप्त्या विरहितं रविम् ५७ अन्योचे किं परायत्तकांतिरस्य करिष्यति । स्वयमेवातिकांतस्य बलदेवस्य धीमतः ।। ५८ ॥ काचिदचे त्वया सीते किं कृतं पुरुषोत्तमम् । इदृशं नाथमुज्झित्वा वजदारुणचित्तया ॥ ५९॥ जगावन्या परं सीता धन्या चित्तवती सती । यथार्था या गृहाननिःसृता स्वहितोद्यता ६० काचिदूचे कथं धीरौ त्वयेमौ सुकुमारको । रहितौ मानसानंदौ सुभक्तौ सुकुमारका ।। ६१ ॥ कदाचिच्चलति प्रेम न्यस्तं भर्तरि योषिताम् । स्वस्तन्यकृतपोषेषु जातेषु न तु जातचित् ॥६२॥ अन्योचे परमावेतौ पुरुषो पुण्यपोषणौ । किमत्र कुरुते माता स्वकर्मनिरते जने ॥ ६३ ।। एवमादिकृतालापाः पद्मवीक्षणतत्पराः । न तृप्तियोगमासेदुर्मधुकर्य इव स्त्रियः॥ ६४ ॥ केचिल्लक्ष्मणमैक्षन्त जगदुश्च नरोत्तमाः । सोऽयं नारायणः श्रीमान्प्रभावाक्रांतविष्टपः ॥ ६५ ॥ चक्रपाणिरयं राजा लक्ष्मीपतिरनुत्तमः । साक्षादरातिदाराणां वैधव्यव्रतविग्रहः ॥६६॥
एवं प्रशस्यमानौ नमस्यमानौ च पौरलोकसमूहैः ।
स्वभवनमनुप्रविष्टौ स्वयंप्रभं वरविमानमिव देवेंद्रौ ॥ ६७ ॥ एवं पद्मस्य चरितं यो निबोधति संततम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org