SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३९ सप्तोत्तरशतं पर्व जिनवागमृतं लब्धं परमं प्रथमं त्वया । निसक्तं येन संसारसमुद्रं प्रतरिष्यसि ॥ ४४ ॥ अपरासामपि स्त्रीणां सतीनां चारुचेतसाम् । इयमेव गतिर्भूयाल्लोकद्वितयशंसिता ॥ ४५ ॥ आत्मा कुलद्वयं लोकस्त्वया सर्व प्रसाधिम् । एवंविधं क्रियायोगं भजेत्या साधुचित्तया ॥४६॥ क्षेतव्यं यत्कृतं किंचित्सुनये साध्वसाधु वा । संसारभावसक्तानां स्खलितं च पदे पदे ॥४७ ॥ त्वयैवंविधया शान्ते जिनशासनसक्तया । परमानंदितं चित्तं विषाद्यपि मनस्विनि ॥४८॥ अभिनंद्येति वैदेही प्रकृष्टमनसाविव । प्रयातौ नगरी कृत्वा पुरस्ताल्लवणांकुशौ ॥ ४९ ॥ विद्याधरमहीपालाः प्रमोदं परमं गताः । विस्मयाकपिता भूत्या परया ययुरग्रतः ॥ ५० ॥ मध्ये राजसहस्राणां वर्तमानौ मनोहरौ । पुरं विविशतुर्वीराविन्द्राविव सुरावृतौ ॥ ५१ ॥ देव्यस्तदग्रतो नानायानारूढा विचेतसः । प्रययुः परिवारेण यथाविधि समाश्रिताः ॥५२॥ प्रविशन्तं बलं वीक्ष्य नार्यः प्रासादमूर्द्धगाः । विचित्ररससंपन्नमभाषन्त परस्परम् ॥ ५३ ॥ अयं श्रीबलदेवोऽसौ मानी शुद्धिपरायणः । अनुकूला प्रिया येन हारिता सुविपश्चिता ।। ५४ ॥ जगौ काचित्प्रवीराणां विशुद्धकुलजन्मनाम् । नराणां स्थितिरक्षेव कृतमेतेन सुंदरम् ।। ५५ ॥ एवं सति विशुद्धात्मा प्रव्रज्यां समुपागता । कस्य नो जानकी जाता मनसः सौख्यकारिणी ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy