________________
पद्मपुराणम्।
सप्तोत्तरशतं पर्व। मयुक्ताऽप्यगमत्त्रासं या पयोदरवादपि । अरण्ये सा कथं भीमे न भेष्यति तपस्विनी ॥ ३१ ॥ नितंबगुरुतायोगललितालसगामिनी । तपसा विलयं नूनं प्रयास्यति सुकोमला ॥ ३२ ॥ केदं वपुः क जैनेन्द्रं तपः परमदुष्करम् । पद्मिन्यां क इवाऽभ्यासो हिमस्य तरुदाहिनः ।। ३३ ॥ अन्नं यथेप्सितं भुक्तं यया परं मनोहरम् । यथालाभं कथं भिक्षां सैषा समधियास्यति ॥ ३४॥ वीणावेणुमृदंगैर्या कृतमंगलनिःस्वनाम् । निद्राऽसेवत सत्तल्पे कल्पकल्पालयस्थिताम् ॥ ३५ ॥ दर्भशल्याचिते सेयं वने मृगरवाकुले । कथं भयानकी भीरु प्रेरयिष्यति शर्वरीम् ।। ३६ ॥ किं मयोपचितं पश्य मोहसंगतचेतसा । पृथग्जनपरीवादाद्वारिता प्राणवल्लभा ॥ ३७॥ अनुकूला प्रिया साध्वी सर्व विष्टपसुंदरी । प्रियंवदा सुखक्षोणी कुतोऽन्या प्रमदेदृशी ॥ ३८ ॥ एवं चिंताभराक्रान्तचित्तः परमदुःखितः । वेपितात्माऽभवत्पद्मश्चलत्पद्माकरोपमः ।। ३९ ।। ततः केवलिनो वाक्यं संस्मृत्य विधृतास्रकः । कृच्छ्रसंस्तंभितौत्सुक्यो बभूव विगतज्वरः ॥४०॥ अथ स्वाभाविकी दृष्टिं विभ्राणः सहसंभ्रमः । अधिगम्य सती सीतां भक्तिस्नेहान्वितोऽनमत् ॥ नारायणोऽपि सौम्यात्मा प्रणम्य रचितांजलिः । अभ्यनंदयदायाँ तां पद्मनाभमनुब्रुवन् ॥४२॥ धन्या भगवति त्वं नो वंद्या जाता सुचेष्टिता । शीलाचलेश्वरं या त्वं क्षितिवद्वहसेऽधुना ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org