________________
पद्मपुराणम् ।
३३६
सप्तोत्तरशतं पर्व । अज्ञातक्लेशसंपर्कः कमलकोडकोमलः । कथं भूमितलेऽरण्ये निशां व्यालिनि नेष्यसि ॥५॥ प्रकटास्थिशिराजालः पक्षमासाद्युपोषितः । कथं परगृहे भिक्षा भोक्ष्यसे पाणिभाजने ॥६॥ नासहिष्ठा द्विषां सैन्यं यो मातंगघटाकुलम् । नीचात्परिभवं स त्वं कथं वा विसहिष्यसे ॥ ७ ॥ कृतांतास्यस्ततोऽवोचद्यस्त्वत्स्नेहरसायनम् । परित्यक्तुमहं सोदुस्तस्यान्यत्किमसह्यकम् ॥ ८॥ यावन्न मृत्युवज्रेण देहस्तंभो निपात्यते । तावदिच्छामि निर्गन्तुं दुःखांधाद्भवसंकटात् ॥९॥ धारयति न निर्यातं वह्निज्वालाकुलालयान् । दयावंतो यथा तद्वदुःखतप्ताद्भवादपि ॥१०॥ वियोगः सुचिरेणापि जायते यद्भवद्विधैः । ततो निंदितसंसारः को न वेत्त्यात्मनो हितम् ॥ ११ ॥ अवश्यं त्वद्वियोगेन दुःखं भवि सुदुःसहम् | मा भूत्पुनरपीदृक्षमिति मे मतिरुद्यता ॥ १२ ॥ नियम्याश्रूणि कृच्छ्रेण व्याकुलो राघवोऽवदत् । मत्तुल्यांश्रियमुज्झित्वा धन्यस्त्वं सद्वतोन्मुखः ॥ एतेन जन्मना नो चेत्वं निर्वाणमुपेष्यसि । ततो बोध्योऽस्मि देवेन त्वया संकटमागतः ॥१४॥ यद्येकमपि किंचिन्मे जानास्युपकृतं ततः । नेदं विस्मरणीयं ते भद्रैवं कुरु संगरम् ॥ १५ ॥ यथाज्ञापयसीत्युक्या प्रणम्य च यथाविधि । उपमृत्योरुसंवेगः सेनानीः सर्वभूषणम् ॥ १६ ॥ प्रणम्य सकलं त्यक्त्वा वाह्यांतरपरिग्रहम् । सौम्यवक्रः सुविक्रान्तो निष्क्रांतः कांतचेष्टितः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org