________________
पद्मपुराणम् ।
३३५
सप्तोत्तरशतं पर्व । मस्माकं कृतकार्य यच्छ निकटं कर्मक्षयं केवलिन् ॥ २४७ ॥ नष्टानां विषयांधकारगहने संसारवासे भव । __ त्वं दीपः शिवलब्धिकांक्षणमहातृङ्खदितानां सरः ॥ वह्निः कर्मसमूहकक्षदहने व्यग्रीभवचेतसां
नानादुःखमहातुषारपतनव्याकंपितानां रविः ॥ २४८ ॥ इति श्रीरविषणाचार्यप्रणीते श्रीपद्मचरिते सपरिवर्गरामदेवपूर्वभवाभिधानं नाम षडुत्तरशतं पर्व ॥१०६।।
अथ सप्तोत्तरशतं पर्व । ततः श्रुत्वा महादुःखं भवसंमृतिसंभवम् । कृतान्तवदनोऽवोचत्पमं दीक्षाभिकांक्षया ॥१॥ मिथ्यापथपरिभ्रान्त्या संसारेऽस्मिन्ननादिके । खिन्नोऽहमधुनेच्छामि श्रामण्यं समुपासितुम् ॥२॥ पद्मनाभस्ततोऽवोचदुत्सृज्य स्नेहमुत्तमम् । अत्यन्तदुर्धरां चर्या कथं धारयसीदृशम् ॥३॥ कथं सहिष्यसे तीव्रान् शीतोष्णादीन् परीषहान् । महाकंटकतुल्यानि वाक्यानि च दुरात्मनाम् ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org