________________
पद्मपुराणम् ।
३३४
षडुत्तरशतं पर्व। ज्ञात्वा सुदुर्जरं वैरं सौमित्रेः रावणस्य च । महादुःखभयोपेतं निर्मत्सरमभूत्सदः ॥ २३७ ॥ मुनयः शंकिता जाता देवाश्चिंता परां गताः । राजानः प्रापुरुद्वेगं प्रतिबुद्धाश्च केचन ॥ २३८ ॥ विमुक्तगर्वसंभाराः परिशान्ताः प्रवादिनः । अपि सम्यक्त्वमायाता आसन्ये कर्मकर्कशाः ॥२३९॥ कर्मदुरात्मसंभारक्षणमात्रकमूर्छिता । समाश्वसत्सभा हा ही धिक् चित्रमिति वादिनी ॥ २४० ॥ कृत्वा करपुटं मूर्ध्नि प्रणम्य मुनिपुंगवम् । मनुष्यसुरगीर्वाणाः प्रशशंसुर्विभीषणम् ॥ २४१ ॥ भवत्समाश्रयाद्भद्र श्रुतमस्माभिरुत्तमम् । चरितं बोधनं पुण्यं मुनिपादप्रसादतः ॥ २४२ ॥ ततो नरेन्द्रदेवेन्द्रमुनीन्द्राः संमदोत्कटाः । सर्वशं तुष्टुवुः सर्वे परिवर्गसमन्विताः ॥ २४३ ॥ त्रैलोक्यं भगवन्नेतत्त्वया सकलभूषण । भूषितं तेन नामेदं तव युक्तं सहार्थकम् ॥ २४४ ॥ तिरस्कृत्य श्रियं सर्वो ज्ञानदर्शनवर्तिनी । केवलश्रीरियं भाति तव दूरीकृतोपमा ॥ २४५ ॥ अनाथमध्रुवं दीनं जन्ममृत्युवशीकृतम् । क्लिश्यतेऽदो जगत्प्राप्तं स्वं पदं जैनमुत्तमम् ॥ २४६ ॥
नानाव्याधिजरावियोगमरणप्रोद्भूतिदुःखं परं ।
प्राप्तानां मृगयुप्रवेजितमृगबातोपमावर्तिनाम् ॥ कृच्छ्रोत्सजेनदारुणाशुभमहाकावरूद्धात्मना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org