________________
पद्मपुराणम्।
षडुत्तरशतं पर्व ।
भारत्यपि न वक्तव्या दुरितादानकारिणी । सीतायाः पश्यत प्राप्ता दुर्वादः शब्दमात्रतः ॥२२४॥ ग्रामो मंडलिको नाम तमायातः सुदर्शनः । मुनिमुद्यानमायान्तं बंदित्वा तं गता जनाः॥२२५॥ सुदर्शनां स्थितां तत्र स्वसारं सद्वचो ब्रुवन् । इक्षितो वेदवत्याऽसौ सत्या श्रवणया तया॥२२६।। ततो ग्रामीणलोकाय सम्यग्दर्शनतत्परा । जगाद पश्यतेदृशं श्रमणं ब्रूथ मुंदरम् ॥ २२७ ॥ मया सुयोषिता साकं स्थितो रहसि वीक्षितः । ततः कैश्चित्प्रतीतं तन्न तु कैश्चिद्विचक्षणैः ॥२२८॥ अनादरो मुनेर्लोकैः कृतश्चावग्रहोऽमुना । वेदवत्या मुखं सूनं देवताया नियोगतः ।। २२९ ॥ अपुण्याया मयाऽलीकं चोदितं भगवानिति । तया प्रत्यायितो लोक इत्याद्यत्र कथा स्मृता २३० एवं सद्भातृयुगलं निंदितं यत्तदानया । अवर्णवादमीदृशं प्राप्तेयं वितथं ततः ॥ २३१ ॥ दृष्टः सत्योऽपि दोषो न वाच्यो जिनमतश्रिता । उच्यमानोऽपि चान्येन वार्यः सर्वप्रयत्नतः २३२ ब्रुवाणो लोकविद्वेषकरणं शासनाश्रितम् । प्रतिपद्य चिरं दुःखं संसारमवगाहते ॥ २३३ ॥ सम्यग्दर्शनरत्नस्य गुणोऽत्यन्तमयं महान् । यद्दोषस्य कृतस्यापि प्रयत्नादुपगृहनम् ॥ २३४ ॥ अज्ञानान्मत्सराद्वापि दोषं वितथमेव तु । प्रकाशयञ्जनोत्यन्तं जिनमागोद्वहिः स्थितः ॥२३५॥ इति श्रुत्वा मुनीन्द्रस्य भाषितं परमाद्भुतम् । सुरासुरमनुष्यास्ते विस्मयं परमं गताः ॥ २३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org