________________
पद्मपुराणम् ।
षडुत्तरशतं पर्व ।
क्वासौ तथाविधः शूरः क्व चेयं गतिरीदृशी । माहात्म्यं कर्मणामेतदसंभाव्यमवाप्यते ॥२११॥ वध्यघातकयोरेवं जायते व्यत्ययः पुनः। संसारभावसक्तानां जंतूनां स्थितिरीदृशी ॥ २१२ ॥ क्व नाके परमा भोगाः क्व दुःख नरके पुनः । विपरीतमहोऽत्यन्तं कर्मणां दुर्विचेष्टितम् ॥२१३॥ परमान्नमहाकूटं यादृशं विषदूषितम् । तपस्तादृशमेवोग्रनिदानकृतनंदनम् ।। २१४ ॥ इयं शाकं द्रुमं छित्वा कोद्रवाणां वृतिः कृता । अमृतद्रवसेकेन पोषितो विषपादपः ॥ २१५ ॥ सूत्रार्थे चूर्णिता सेयं परमा रत्नसंहतिः । गोशीर्ष चंदनं दग्धमंगाराहितचेतसा ॥ २१६ ॥ जीवलोकेऽवला नाम सर्वदोषमहाखनिः । किं नाम न कृते तस्याः क्रियते कर्म कुत्सितम् ।।२१७॥ प्रत्यावृत्त्य कृतं कर्म फलमर्पयति ध्रुवम् । तत्कमिन्यथा केन शक्यते भुवनत्रये ॥ २१८ ॥ कृत्वापि संगतिं धर्मे यद्भजंतीदृशीं गतिम् । उच्यतामितरेषां किं तत्र निधर्मचेतसाम् ।। २१९ ॥ श्रामण्यसंगतस्यापि साध्यमत्सरसेविनः । कृत्वाऽप्युग्रतपो नास्ति शिवं संज्वलनस्पृशः ॥२२०॥ न समो न तपो यस्य मिथ्यादृष्टेन संयमः । संसारोत्तरणे तस्य क उपायो दुरात्मनः ॥ २२१ ॥ हियंते वायुना यत्र गजेन्द्रा मदशालिनः । पूर्वमेव हृतास्तत्र शशकाः स्थलवर्तिनः ॥२२२ ॥ एवं परमदुःखानां ज्ञात्वा कारणमीदृशम् । मा काष्टं वैरसंबंधं जनाः स्वहितकांक्षिणः ॥ २२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org