________________
पद्मपुराणम् ।
षडुत्तरशतं पर्व ।
पूर्वमाजननं बालेर्यपृच्छद्विभीषणः । केवली च समाचख्यौ श्रृणु ते श्रेणिकाधुना ॥ १८५ ॥ रत्यरत्यादिदुःखौधे संसारे चतुरतके । वृंदारण्यस्थले जंतुरेकः कृष्णमृगोऽभवत् ।। १८६ ॥ साधुस्वाध्यायनिःस्वानं श्रुत्वायुर्विलये मृगः । ऐरावते दितिस्थाने प्राप नृत्वमनिंदितम् || १८७|| सम्यग्दृष्टिः पिताऽस्यासीद्विहीताख्यः सुचेष्टितः । माता शिवमतिः पुत्रो मेघदत्तस्तयोरयम् १८८ अणुव्रतधरः सोऽयं जिनपूजासमुद्यतः । बंदारुः कृतसत्कालः कल्पमैशानमाश्रयत् ॥ १८९ ॥ च्युत्वा जंबूमति द्वीपे विदेहे पूर्व भूमिके । पुरोऽस्ति विजयावत्याः समीपे सततोत्सवः ॥ १९०॥ सुग्रामः पतनाकारो नामतो मत्तकोकिलः । कांतशोकः प्रभुस्तत्र तस्य रत्नाकिनी प्रिया ॥ १९९ ॥ ' तयो: सुप्रभनामाऽभूत्तनयश्चारुदर्शनः । बहुबंधुजनाकीर्णः शुभैकचरितप्रियः || १९२ ।। संसारे दुर्लमां प्राप्य बोधिं जिनमतानुगाम् । अग्रहीत्संयमं पार्श्वे संयतस्य महामुनेः ।। १९३ । अतपच्च तपस्तीव्रं यथाविधि महाशयः । संवत्सरसहस्राणि बहूनि सुमहामनाः ॥ १९४ ॥ नानान्धसमेतोऽपि यो न गर्वमुपागतः । संयोगजेषु भावेषु तत्याज ममतां च यः ॥ १९५ ॥ विकषायसितध्यानसिद्धः स्यात्स महामुनिः । पर्याप्तं केवलं नायुरतः सर्वार्थसिद्धिमैत् ।। १९६ ॥ त्रयस्त्रिंशत्समुद्रायुस्तत्र भुक्त्वा महासुखम् । वालिनाम्नाऽजनिष्टासौ प्रतापी खेचराधिपः || १९७||
Jain Education International
३३०
For Private & Personal Use Only
www.jainelibrary.org