________________
पद्मपुराणम् ।
३२८
षडुत्तरशतं पर्व |
प्रभास कुंदनामासौ प्राप्य बोधिं सुदुर्लभाम् । पार्श्वे विचित्रसेनस्य मुनेर्दीक्षामसेवत ।। १५९ ॥ विमुक्तरतिकंदर्पगर्वसंरंभ मत्सरः । निर्विकारस्तपश्च के दयावान्निर्जितेन्द्रियः ॥ १६० ॥ षष्ठ|ष्टमार्द्धमासादिनिराहारः स्पृहोज्झितः । यत्रास्तमितनिलयो वसन् शून्यवनादिषु ॥ १६१ ॥ गुणशील सुसंपन्नः परीषहसहः परः । आतापनरतो ग्रीष्मे पिनद्धमलकंचुकः ।। १६२ ।। वर्षासु मेघमुक्ताभिरद्भिः क्लिन्नस्तरोरधः । प्रालेयपटसंवीतो हेमंते पुलिनास्थितः ॥ १६३ ॥ एवमादिक्रियायुक्तः सोन्यदा सिद्धमंदिरम् । सम्मेदं वंदितुं यातः स्मृतमप्यघनाशनम् ॥ १६४ ।। कनकप्रभसंज्ञस्य तत्र विद्याभृतां विभोः । विभूतिं गगने वीक्ष्य प्रशांतोऽप्यन्यदा नयन् ॥ १६५ ॥ अलं विभवमुक्तेन तावन्मुक्तिपदेन मे । ईदृगैश्वर्यमाप्नोमि तपोमाहात्म्यमस्ति चेत् ॥ १६६ ॥ अहो पश्यत मूढत्वं जनितं पापकर्मभिः । रत्नं त्रैलोक्यमूल्यं यद्विक्रीतं शाकमुष्टिना ॥। १६७ ।। भवत्युद्भवकालेषु विपद्यते विपर्यये । धियः कर्मानुभावेन केन किं क्रियतामिह ॥ १६८ ॥ निदान दूषितात्मासौ कृत्वातिविकटं तपः । सनत्कुमारमारुक्षत्तत्र भोगान सेवत || १६९ ।। च्युतः पुण्यावशेषेण भोगस्मरणमानसः । रत्नश्रुवः सुतो जातो कैकस्यां रावणाभिधः || १७० || लंकायां च महैश्वर्यं प्राप्तो दुर्लङितक्रियम् । कृतानेकमहाश्चर्यं प्रतापाक्रांतविष्टपम् ॥
१७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org