________________
पद्मपुराणम् ।
३२७
षडुत्तरशतं पर्व । ततो वेदवतीमेनां प्रत्यक्षां देवतामिव । अनिच्छन्तीं प्रभुत्वेन बलादुद्वोहुमुद्यतः ॥ १४६ ॥ मनसा कामतृप्तेन तामालिंग्योपचुम्ब्य च । विस्फुरंती रतिं साक्षान्मैथुनेनोपचक्रमे ॥ १४७ ॥ ततः प्रकुपितात्यंतं चंडा वह्निशिखेव सा । विरक्तहृदया बाला वेपमानशरीरिका ॥ १४८ ॥ आत्मनः शीलनाशेन वधेन जनकस्य च । विभ्राणा परमं दुःखं प्राह लोहितलोचना ॥ १४९॥ व्यापाद्य पितरं पाप कामितास्मि बलेन् यत् । भवद्वधार्थमुत्पश्ये ततोऽहं पुरुषाधम ॥ १५० ॥ परलोकगतस्यापि पितुनोहं मनोरथम् । लुपामि तेन दुर्दृष्टिकामनान्मरणं वरम् ॥ १५१॥ हरिकांतार्यिकायाश्च पार्श्व गत्वा ससंभ्रमम् । प्रव्रज्य साकरोद्धाला तपः परमदुष्करम् ॥१५२॥ लुंचनोत्थितसंरक्षमूर्बुजा मांसवर्जिता । प्रकटास्थिशिराजाला तपसा शुष्कदेहिका ॥ १५३ ॥ कालधर्म परिप्राप्य ब्रह्मलोकमुपागता । पुण्योदयसमानीतं सुरसौख्यमसेवत ॥ १५४ ॥ तया विरहितः शंभुर्लघुत्वं भुवने गतः । विबंधुभृत्यलक्ष्मीको प्रापदुन्मत्ततां कुधीः ॥ १५५ ॥ मिथ्याभिमानसंमूढो जिनवाक्यात्पराङ्मुखः । हसति श्रमणान् दृष्ट्वा दुरुक्ते च प्रवर्त्तते ॥१५६॥ मधुमांससुराहारः पापानुमननोद्यतः । तियेङ्नरकवासेषु सुदुःखेष्वभ्रमच्चिरम् ॥ १५७ ॥ अथोपशमनात्किंचित्कर्मणः क्लेशकारिणः । कुशध्वजस्य विप्रस्य सावित्र्यां तनयोऽभवत् ॥१५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org