SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३२६ षबुत्तरशतं पर्व। पुरे मृणालकुंडाख्यो प्रतापी यशसोज्ज्वलः । राजा विजयसेनाख्यो रत्नचूलास्य भामिनी १३३ वज्रकंबुः सुतस्तस्य हेमवत्यस्य भामिनी । शंभुनामा तयोः पुत्रः प्रख्यातो धरणीतले ॥१३४॥ पुरोधाः परमस्तस्य श्रीभूतिस्तत्त्वदर्शनः । तस्य पत्नीगुणैर्युक्ता पत्नी नाम्ना सरस्वती ॥१३५।। आसीद्गुणवती याऽसौ तियेग्योनिषु सा चिरम् । भ्रांस्वा कर्मानुभावेन सम्यग्धविवर्जिता १३६ मोहेन निंदनैः स्त्रैणैर्निदानैरभिगृहनैः । स्त्रीत्वमुत्तमदुःखाक्तं भजमानाः पुनः पुनः ॥ १३७ ॥ साधुष्ववर्णवादेन दुरवस्थाखलीकृता । परिप्राप्ता करेणुत्वमासीन्मंदाकिनीतटे ॥ १३८ ॥ सुमहापंकनिर्मग्ना परायत्तस्थिरांगिका । विमुक्तमंदसूत्कारा मुकुलीकृतलोचना ॥ १३९ ॥ मुमूर्षन्ती समालोक्य खेचरेण कृपावता । तरंगवेगनाम्नासौ कर्णेजपमुपाहृता ॥ १४०॥ ततस्तनुकषायत्वात्तत्क्षेत्रगुणतोऽपि च । प्रत्याख्यानाच तद्दत्ताच्छीभूतेः सा सुताऽभवत् ।।१४१॥ भिक्षार्थिनं मुनिं गेहं प्रविष्टमवलोक्य सा । उपाहसत्ततः पित्रा शामिता श्राविकाऽभवत् ॥१४२॥ तस्याः परमरूपायाः सुकन्यायाः कृतेऽवनौ । उत्कंठिताः महीपालाः शंभुस्तेषु विशेषतः ॥१४३॥ मिथ्यादृष्टिः कुवेरेण समो भवति यद्यपि । तथापि नास्मै देयेयं प्रतिज्ञेति पुरोधसः ॥१४४॥ ततः प्रकृपितेनासौ शंभुना शयितो निशि । हिंसितः सुरता प्राप्तो जिनधर्मप्रसादतः ॥ १४५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy