________________
पद्मपुराणम् ।
३२३
षडुत्तरशतं पर्व । संघावतोऽस्य संसारे कर्मयोगेन देहिनः । कृच्छ्रेण महता प्राप्तिर्मुक्तिमार्गस्य जायते ॥ ९४ ॥ संध्याबुद्बुदफेनोोर्मविद्युदिन्द्रधनुः समः । भंगुरत्वेन लोकोऽयं न किंचिदिह सारकम् ॥ ९५ ॥ नरके दुःखमेकांतादेति तिर्यक्षु वासुमान् । मनुष्यत्रिदशानां च सुर्खेनैवैष तृप्यति ॥ ९६ ॥ माहेन्द्रभोगसंपद्भिर्यो न तृप्तिमुपागतः । स कथं क्षुद्रकैस्तृप्तिं व्रजेन्मनुजभोगकैः ॥ ९७ ॥ कथंचिद्दुर्लभं लब्ध्वा निधानमधनो यथा । नरत्वं मुह्यति व्यर्थं विषयास्वादलोभतः ॥ ९८ ॥ काग्नेः शुष्केंधनैस्तृप्तिः कांबुधेरापगाजलैः । विषयास्वाद सौख्यैः का तृप्तिरस्य शरीरिणः ॥ ९९ ॥ मज्जन्निव जले खिन्नो विषयामिषमोहितः । दक्षोऽपि मंदतामेति तमधीकृतमानसः ॥ १०० ॥ दिवा तपति तिग्मांशुर्मदनस्तु दिवानिशम् । समस्ति वारणं भानोर्मदनस्य न विद्यते ॥ १०१ ॥ जन्ममृत्युजरादुःखं संसारे स्मृतिभीतिदम् । अरहघटीयंत्रसंततं कर्मसंभवम् ॥ १०२ ॥ अजंगमं यथाऽन्येव यंत्रं कृतपरिभ्रमम् । शरीरमधुवं पूति तथा स्नेहोऽत्र मोहतः ॥ १०३ ॥ जलबुद्बुदनिःसारं ज्ञात्वा मनुजसंभवम् । निर्विण्णाः कुलजा मार्ग प्रपद्यन्ते जिनोदितम् ॥ १०४ ॥ उत्साहकवचच्छन्ना निश्चयाश्वस्थसादिनः । ध्यानखड्गधरा धीराः प्रस्थिताः सुगतिं प्रति १०५ अन्यच्छरीरमन्योऽहमिति संचित्य निश्चिताः । तथा शरीरके स्नेहं धर्म कुरुत मानवाः ।। १०६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org