________________
३२२
पद्मपुराणम् ।
षडुसरशतं पर्व। गुप्तिवतसमित्युद्यः संघेन महता वृतः । समाधिगुप्तयोगीन्द्रः पुरं तदन्यदागमत् ।। ८१ ॥ उद्यानेऽवस्थितस्यास्य तत्र ज्ञात्वा जनोऽखिलः । वंदनामगमत्कतुं सम्मदं तोषतत्परः ॥ ८२॥ स्तुवतोऽस्य परं भक्त्या नादं धनकुलोपमम् । कर्णामादाय संश्रुत्य श्रीचंद्रोऽपृच्छदंतिकान् ८३ कस्यैष श्रूयते नादो महासागरसम्मितः । अजानगिः समादिष्टैस्तैरमात्यः कृतोऽतिकः ॥८४॥ ज्ञायता कस्य नादोऽयमिति राज्ञा स भाषितः । गत्वा ज्ञात्वा परावृत्य मुनि प्राप्तमवेदयत् ॥८५॥ ततो विकचराजीवराजमाननिरीक्षणः । सस्त्रीकः सम्मदोद्भूतपुलकः प्रस्थितो नृपः ॥८६॥ प्रसन्नमुखतारेशं निरीक्ष्य मुनिपुंगवम् । संभ्रमी शिरसा नत्वा न्यसीदद्विनयाभुवि ।। ८७ ॥ भव्यांभोजप्रधानस्य मुनिभास्करदर्शने । तस्यासीदात्मसंवेद्यः कोपि प्रेममहाभरः ॥ ८८ ॥ ततः परमगंभीरः सवेश्रुतिविशारदः । अदाज्जनमहौघाय मुनिस्तत्वोपदेशनम् ॥ ८९॥ अनगारं सहागारं धर्म विविधमब्रवीत् । अनेकभेदसंयुक्तं संसारोत्तारणावहम् ॥ ९ ॥ करणं चरणं द्रव्यं प्रथमं च सभेदकम् । अनुयोगमुख्यं योगी जगाद वदतांवरः ॥९१॥ आक्षेपणी पराक्षेपकारिणीमकरोत्कथाम् । ततो निक्षेपणी तत्त्वमतनिक्षेपकोविदाम् ॥ ९२ ॥ संवेजनी च संसारभयप्रचयबोधनीम् । निर्वेदनी तथा पुष्पां भोगवैराग्यकारिणीम् ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org