________________
पद्मपुराणम् ।
३२१
षडुत्तरशतं पर्व ।
ततः समाधिमाराध्य मरणे वर्षभध्वजः । त्रिदशोऽभवदीशाने पुण्यकर्मफलानुभूः ॥ ६८ ॥ सुरस्त्रीनयनांभोजविकासिनयनद्युतिः । तथाऽक्रीडत्परिध्यातसंपन्नसकलेप्सितः ॥ ६९ ॥ काले पद्मरुचिः प्राप्य समाधिमरणं तथा । ईशान एव गीर्वाणः कांतो वैमानिकोऽभवत् ॥७॥ च्युत्वा परविदेहे तु विजयाचलमस्तके । नंद्यावर्तपुरेशस्य राज्ञो नंदीश्वरश्रुतेः ।। ७१ ॥ उत्पन्नः कनकाभायां नयनानंदसंज्ञकः । खेचरेन्द्रश्रियं तत्र बुभुजे परमायताम् ॥ ७२ ॥ ततः श्रामण्यमास्थाय कृत्वा सुविकटं तपः । कालधर्म समासाद्य माहेन्द्रं कल्पमाश्रयत् ॥७३॥ मनोज्ञ पंचविषयद्वारं परमसुंदरम् । परिमाप सुखं तत्र पुण्यवल्लीमहाफलम् ॥ ७४ ॥ च्युतस्ततो गिरेमरौ भागे पूर्वदिशि स्थिते । क्षेमायां पुरि संजातः श्रीचंद्र इति विश्रुतः ॥७॥ माता प्रमावती तस्य पिता विपुलवाहनः । तत्र स्वर्गोपभुक्तस्य निष्पंदं कर्मणोऽभजत् ॥ ७६ ॥ तस्य पुण्यानुभावेन कोशो विषयसाधनम् । दिने दिनं परां वृद्धिमसेवत समंततः ॥ ७७ ।। ग्रामस्थानीयसंपन्नां पृथिवीं विविधाकंराम् । प्रियामिव महाप्रीत्या श्रीचन्द्रः समपालयत् ।।७८॥ हावभावमनोज्ञाभिनारीभिस्तत्र लालितः। पर्यरंसीत्सुरस्त्रीभिः सुरेन्द्र इव संगतः ॥ ७९ ॥ संवत्सरसहस्राणि सुभूरीणि क्षणोपमम् । तस्य दोदुंदुकस्येव महैश्वर्ययुजोऽगमन् ॥ ८० ।।
३-२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org