________________
३२०
पद्मपुराणम् ।
षडुत्तरशतं पर्व ।
अवतीर्य च नागेन्द्रादविक्षाज्जनमंदिरम् । पश्यन्तं च तदाशक्तं धारण्येयं निरैक्षत ॥ ५५ ॥ नेत्राssस्यहस्त संचारसूचितो तुंगविस्मयम् । अनंसीत्पादयोरेनं परिज्ञाय वृषध्वजः ॥ ५६ ॥ गोदुःखमरणं तस्मै धारणीसूनुरब्रवीत् । राजपुत्रोऽगदीन्सोऽहमिति विस्तारिलोचनः ॥ ५७ ॥ संभ्रमेण च संपूज्य गुरुं शिष्यवरो यथा । तुष्टः पद्मरुचि राजतनयः समुदाहरन् ॥ ५८ ॥ मृत्युव्यसनसंबद्धे काले तस्मिन् भवान्मम । प्रियबंधुरिव प्राप्तः समाधेः प्रापकोऽभवत् ।। ५९ ।। समाध्यमृतपाथेयं त्वया दत्ता दयालुना । स पश्य तृप्तिसंपन्नः संप्राप्तोऽहमिमं भवम् ॥ ६० ॥ नैव तत्कुरुते माता न पिता न सहोदराः । न बांधवा न गीर्वाणाः प्रियं यन्मे त्वया कृतम् ६१ नेक्षे पंचनमस्कारश्रुतिदानविनिष्क्रयम् । तथापि मे परा भक्तिः त्वयि कारयतीरितम् ॥ ६२ ॥ आज्ञां प्रयच्छ मे नाथ ब्रूहि किं करवाणि ते । आज्ञादानेन मां भक्तं भजस्व पुरुषोत्तम ॥ ६३ ॥ गृहाण सकलं राज्यमहं ते दासरूपकः । नियुज्यतामयं देहः कर्मण्यभिसमीहिते ॥ ६४ ॥ एवमादिसुभाष तयोः प्रेमाभवत्परम् । सम्यक्त्वं चैव राज्यं च संप्रयोगश्च संततम् ।। ६५ ।। अस्थिमज्जनुरक्तौ तौ सागरत्रत संगतौ । जिनविधानि चैत्यानि भुव्यतिष्ठितां स्थिरौ ॥ ६६ ॥ स्तूपैश्च धवलांभोजमुकुलप्रतिमामितैः । समपादयतां क्षोणीं शतशः कृतभूषणाम् || ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org