________________
पद्मपुराणम्।
षडुत्तरशतं पर्व।
दीयमाने जपे तेन कर्णे पंचनमस्कृतेः । शृण्वन्नुक्षशरीरी स शरीरानिरितस्ततः ॥ ४२ ॥ श्रीदत्तायां च संजज्ञे तनुदुःकर्मजालकः । छत्रच्छायोऽभवत्तोषी दुर्लभे पुत्रजन्मनि ॥४३॥ उदारा नगरे शोभा जनिता द्रव्यसंपदा । समुत्सवो महान् जातो वादित्रवधिरीकृतः॥४४॥ ततः कर्मानुभावेन पूर्वजन्मसमस्मरन् । गोदुःखं दारुणं तच वाहशीतातपादिजम् ॥ ४५ ॥ श्रुतिं पांचनमस्कारी चेतसा च सदा वहन् । बाललीलाप्रसक्तोऽपि महासुभगविभ्रमः ॥ ४६॥ कदाचिद्विहरन्प्राप्तः स तां वृषमृतक्षितिम् । पर्यज्ञासीत्पदेशाँश्च पूर्वमाचरितान् स्वयम् ॥४७॥ वृषभध्वजनामासौ कुमारो वृषभूमिकाम् । अवतीर्य गजात्स्वैरमपश्यद्दुःखिताशयः ॥४८॥ बुधं समाधिरत्नस्य दातारं श्लाघ्यचेष्टितम् । अपश्यद्दर्शने तस्य दध्यौ चौपयिकं ततः ।। ४९ ॥ अथ कैलाशशृंगाभं कारयित्वा जिनालयम् । चरितानि पुराणानि पट्टकादिष्वलेखयत् ॥ ५० ॥ द्वारदेशे च तस्यैव पटं स्वभवचित्रितम् । पुरुषैः पालने न्यस्तैरधिष्ठितमतिष्ठिपत् ॥५१॥ बंदारुश्चैत्यभवनं तत्पनरुचिरागमत् । अपश्यच्च प्रहृष्टात्मा तचित्रं विस्मितस्ततः ॥५२॥ तन्निबढेक्षणो यावदसौ यच्चित्रमीक्षते । वृषध्वजस्य पुरुषस्तावत्संवादितं श्रुतम् ॥ ५३ ॥ ततो महर्द्धिसंपन्नः समारुह्य द्विपोत्तमम् । इष्टसंगमनाकांक्षी राजपुत्रः समागमन् ॥ ५४॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org