________________
पद्मपुराणम् ।
पडुत्तरशतं पर्व । जले स्थले च भूयोऽपि वैरानुसरणोद्यतौ । भ्राम्यतः पापकर्माणौ म्रियमाणौ तथाविधम् ॥२९॥ परमं दुःखितः सोऽपि धनदत्तोऽध्वखेदितः । अन्यदाऽस्तंगते भानौ श्रमणाश्रममागमत् ॥३०॥ तत्र साधूनभाषिष्ट तृषितोऽप्युदकं मम । प्रयच्छत सुखिन्नस्य यूयं हि सुकृतप्रियाः ॥ ३१ ॥ तत्रैकश्रमणोऽवोचन्मधुरं परिसांत्वयन् । रात्रावप्यमृतं युक्तं न पातुं किं पुनर्नलम् ॥ ३२ ॥ चायापारनिमुक्ते काले पापैकदारुणे । अदृष्टसूक्ष्मजंत्त्वाट्ये मा शीर्वत्स विभावरे ॥३३॥ आतुरेणाऽपि भोक्तव्यं विकाले भद्र न त्वया । मा पप्तो व्यसनोदारसलिले भवसागरे ॥ ३४ ॥ उपशांतस्ततः पुण्यकथाभिः सोऽल्पशक्तिकः । अणुव्रतधरो जातो दयालिंगितमानसः ॥ ३५ ॥ कालधर्म च संप्राप्य सौधर्मे सत्सुरोऽभवत् । मौलिकुंडलकेयूरहारतुद्यंगदोज्ज्वलः॥३६॥ पूर्वपुण्योदयात्तत्र सुरस्त्रीसुखलालितः । महाप्सरःपरिवारो मोदते वज्रपाणिवत् ॥ ३७॥ ततश्युतः समुत्पन्नः पुरश्रेष्ठमहापुरे । धारिण्यां श्रेष्ठिनो मेरो नात्पद्मरुचिः सुतः ॥ ३८॥ तत्रैव च पुरे नाम्ना छत्रच्छायो नरेश्वरः । महिषीगुणमंजूषा श्रीदत्ता तस्य भाविनी ॥ ३९ ॥ आगच्छन्नन्यदा गोष्ठं गत्वा तुरगपृष्ठतः । अपश्यद्भुवि पर्यस्तं मैरवो जीर्णक वषम् ॥ ४० ॥ सुगंधिवस्त्रमाल्योऽसाववतीये तुरंगतः । आदरेण तमुक्षाणं दयावानातुरं गतः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org