________________
पद्मपुराणम् ।
३१७
षडुत्तरशतं पर्व ।
वित्तस्याल्पतयावज्ञां धनदत्ते विधाय च । श्रीकांतायोद्यतो दातुं भ्रान्तां तां क्षुद्रमानसः ॥१६॥ विचेष्टितमिदं ज्ञात्वा वसुदत्तः प्रियाग्रजः । यज्ञवत्युपदेशेन श्रीकांतं हन्तुमुद्यतः ॥ १७ ॥ मंडलाग्नं समुद्यम्य रात्रौ तमसि गहरे । निःशब्दपदविन्यासो नीलवस्त्रावगुंठितः ॥ १८ ॥ श्रीकांतं भवनोद्याने प्रमादिनमवस्थितम् । गत्वा प्राहरदेषोऽपि श्रीकांतेनासिनाहतः ॥ १९ ॥ एवमन्योन्यघातेन मृत्यु तो समुपागतौ । विंध्यपादमहारण्ये समुद्भूतौ कुरंगकौ ॥२०॥ दुर्जनेधनदत्ताय कुमारी वारिता ततः । क्रुध्यन्ति ते हि नियाजादुपदेशे तु किं पुनः ॥ २१ ॥ तेन दुर्मृत्युना भ्रातुः कुमार्यपगमेन च । धनदत्तोद् दुहादुःखी देशानभ्रमदाकुलः ॥ २२ ॥ धनदत्तापरिप्राप्तया साऽपि बाला सुदुःखिता । अनिष्टान्यवरा गेहे नियुक्तान्तप्रदाविधौ ॥२३॥ मिथ्यादृष्टिस्वभावेन द्वेष्टि दृष्ट्वा निरंबरम् । साऽसूयते समाक्रोशत्यपि निर्भर्त्सयत्यपि ॥ २४ ॥ जिनशासनमेकांतान्न श्रद्धत्तेतिदुर्जना । मिथ्यादर्शनसक्तात्मा कर्मबंधानुरूपतः ॥ २५ ॥ ततः कालावसानेन सार्तध्यानपरायणा । जाता तत्र मृगी यत्र वसतस्तौ कुरंगकौ ॥ २६ ॥ । पूर्वानुबंधदोषेण तस्या एव कृते पुनः । मृगावन्योन्यमुवृत्तौ हत्वा शूकरतां गतौ ॥ २७ ॥ द्विरदौ महिषौ गावौ प्लवगौ द्वीपिनो वृकौ । रुरू च तो समुत्पन्नावन्योन्यं च हतस्तथा ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org