________________
३१६
पद्मपुराणम् ।
षडुत्तरशतं पर्व ।
भगवन पद्मनाभेन किमनेन भवांतरे । सुकृतं येन माहात्म्यं प्रतिपन्नोऽयमीदृशम् ॥ ३ ॥ अस्य पत्नी सती सीता दंडकारण्यवर्त्तितः । केनानुबंधदोषेण रावणेन तदा हृता ॥ ४ ॥ धर्मार्थकाममोक्षेषु शास्त्राणि सकलं विदन् । कृत्याकृत्यविवेकज्ञो धर्माधर्मविचक्षणः || ५ ॥ प्रधानगुणसंपन्नो भूत्वा मोहवशं गतः । पतंगत्वमितः कस्मात्परस्त्रीलोभपावके || ६ || भ्रातृपक्षातिसक्तेन भूत्वा वनविचारिणा । लक्ष्मीधरेण संग्रामे स कथं भुवि मूच्छितः ॥ ७ ॥ स तादृम्बलवानासीद्विद्याधरमहेश्वरः । कृतानेकाद्भुतं प्राप्तः कथं मरणमीदृशम् ॥ ८ ॥ अथ केवलिनो वाणी जगाद बहुजन्मगाम् । संसारे परमं वैरमेतेनाऽऽसीत्सहानयोः ॥ ९ ॥ इह जंबूद्वीपे भरते क्षेत्रनामनि । नगरे नयदत्ताख्यो वणिजोऽभूत्समस्वकः ॥ १० ॥ सुनंदा गेहिनी तस्य धनदत्तः शरीरजः । द्वितीयो वसुदत्तस्तत्सुहृद्यबलिद्विजः ॥ ११ ॥ वणिक्सागरदत्ताख्यस्तत्रैव नगरेऽपरः । पत्नी रत्नप्रभा तस्य गुणवत्युदितात्मजा ॥ १२ ॥ रूपयौवनलावण्यक्रांतिसद्विभ्रमात्मिका । अनुजो गुणवान्नामा तस्या आसीत्सुचेतसः ॥ १३ ॥ पित्राकूतं परिज्ञाय प्रीतेन कुलकांक्षिणा | दत्ता प्रौढकुमारी सा धनदत्ताय सूरिणा ॥ १४ ॥ श्रीकांत इति विख्यातो वणिक्पुत्रोऽपरो धनी । सतां संततमाकांक्षद्रूपस्तेनितमानसः ॥ १५ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org