________________
पद्मपुराणम् ।
३१५
षडुत्तरशतं पर्व ।
स्नेहोर्मिचंद्र खंडेषु तरंतं लग्नतोज्झितम् । अवलंबनदानेन मां त्रायस्व मुनीश्वर ॥ २६३ ॥ उवाच भगवान् राम न शोकं कर्तुमर्हसि । ऐश्वर्यं बलदेवस्य भोक्तव्यं भवता ध्रुवम् ॥ २६४ ॥ राज्यलक्ष्मी परिप्राप्य दिवीव त्रिदशाधिपः । जैनेश्वरं व्रतं प्राप्य कैवल्यमयमेष्यसि ।। २६५ ।। श्रुत्वा केवलिभाषितमुत्तमहर्षप्रजातपुलको रामः
विकसितनयनः श्रीमान्प्रसन्नवदनो बभूव धृत्या युक्ताः ।। २६६ ।। विज्ञाय चरमदेहं दाशरथिं विस्मिताः सुरासुरमनुजाः ।
केवलिरविणोद्योतितमत्यन्तप्रीतिमानसाः समशंसन् ॥ २६७ ॥
इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे रामधर्मश्रवणाभिधानं नाम पंचोत्तरशतं पर्व ॥ १०५ ॥
अथ पटुत्तरशतं पर्व |
वृषभः खेचराणां तद्भक्तिभूषो विभीषणः । निर्भीषण महाभूषं वृषभं व्योमवाससाम् ॥ १ ॥ पाणियुग्ममहां भोजभूषितोत्तमदेहभृत् । स नमस्कृत्य पप्रच्छ धीमान् सकलभूषणम् ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org