________________
पद्मपुराणम् ।
३१४
पंचोत्तरशतं पर्व । संक्लेशवह्निना तप्तो बहारंभक्रियोद्यतः। न कंचिदर्थमाप्नोति हियते वास्य संगतम् ॥ २५० ॥ असौ पुराकृतात्पापादनाप्याथ मनोगतम् । प्रत्युताऽनर्थमाप्नोति महांतमतिदुर्जरम् ॥ २५१ ॥ इदं कृतमिदं कुर्वे करिष्येहं सुनिश्चितम् । माहे वस्त्वदः पापान्मृत्यु यांतीति चिंतकाः ॥२५२॥ न हि प्रतीक्षते मृत्युरसुभाजां कृताकृतम् । समाक्रामत्यकांडेऽसौ मृगकं केसरी यथा ॥ २५३ ॥ अहिते हितमित्याशा सुदुःखे सुखसम्मतिः । अनित्ये शाश्वताकृतं शरणाशा भयावहे ।। २५४ ॥ हिते सुखे परित्राणे ध्रुवे च विपरीतधीः । अहो कुदृष्टिसक्तानामन्यथैव व्यवस्थितिः ॥ २५५ ॥ भायर्यावारिप्रविष्टः सन् मनुष्यो वनवारणः । विषयामिषसक्तश्च मत्स्यो बंधं समश्नुते ।। २५६ ॥ कुटुंबसुमुहापंके विस्तरे मोहसागरे । मनोऽवसीदति स्फूर्जन्दुर्बलो गवली यथा ॥ २५७ ॥ मोक्षो निगडबद्धस्य भवेदंधाच कूपतः । निबद्धः स्नेहपाशैस्तु ततः कृच्छ्रेण मुच्यते ॥ २५८ ॥ बोधि मनुष्यलोकेऽपि जैनेद्रीं सुष्ठु दुर्लभाम् । प्राप्तुमर्हत्यभव्यास्तु नैव मार्ग जिनोदितम् २५९ घनकर्मकलंकाक्ता अभव्या नित्यमेव हि । संसारचक्रमारूढा भ्राम्यंति क्लेशवाहिताः ॥२६०॥ ततः कृत्वांजलिं मूर्ध्नि जगाद रघुनंदनः । किमस्मि भगवन् भव्यो मुच्ये कस्मादुपायतः॥२६१॥ शक्रोमि पृथिवीमेतां त्यक्तुं सांतःपुरामहम् । लक्ष्मीधरस्य सुकृतं न शक्नोम्येकमुज्झितुम् ॥२६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org