________________
पद्मपुराणम् ।
३१३
पंचोत्तरशतं पर्व। अग्निवारिप्रवेशादिपापं धर्मधिया श्रयन् । प्रयाति दुर्गतिं जीवो मूढः स्वहितवर्त्मनि ॥ २३७ ॥ रौद्रार्तध्यानसक्तस्य सकामस्य कुकर्मणः । उपायविपरीतस्य जायते निंदिता गतिः ॥ २३८ ॥ मिथ्यादर्शनयुक्तोऽपि यो दद्यात्साध्वसाधुषु । धर्मबुद्धिरसौ पुण्यं वध्नाति विपुलोदयम् ॥२३९।। भुंजानोऽपि फलं तस्य धर्मस्यासौ त्रिविष्टपे । लक्षभागफलेनाऽपि सम्यग्दृष्टेने संमितः ॥२४०॥ सम्यग्दशेनमुत्तुंगं सुश्लाघ्याः संवहन्ति ये । देवलोकप्रधानास्ते भवंति नियमाप्रियाः ॥ २४१ ॥ क्लेशित्वाऽपि महायत्नं मिथ्यादृष्टिः कुलिंगकः । देवकिंकरभावेन फलं हीनमवाश्नुते ॥२४२॥ सप्ताष्टसु नृदेवत्वभवसंक्रांतिसौख्यभाव । श्रमणत्वं समाश्रित्य सम्यग्दृष्टिविमुच्यते ॥ २४३ ॥ वीतरागैः समस्तरिमं मार्ग प्रदर्शितम् । जंतुर्विषयमूढात्मा प्रतिपत्तुं न वांछति ॥ २४४ ॥ आशापाशैदृढ बद्धा मोहेनाधिष्ठिता भृशम् । तृष्णागारं समानीताः पापहिंजीरवाहिनः ॥२४५॥ रसनं स्पर्शनं प्राप्य दुःखसौख्याभिमानिनः । वराका विविधा जीवाः क्लिश्यते शरणोज्झिता। विभेति मृत्युतो नास्य ततो मोक्षः प्रजायते । कांक्षत्यनारतं सौख्यं न च लाभोऽस्य सिद्धयति ।। इत्ययं भीतिकामाभ्यां विफलाभ्यां वशीकृतः । केवलं तापमायाति चेतनो निरुपायकः ॥२४८॥ आशया नित्यमाविष्टो भोगान् भोक्तुं समीहते । न करोति धृतिं धर्मे कांचने मशको यथा २४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org