________________
पद्मपुराणम् ।
पंचोत्तरशतं पर्व ।
दर्शनज्ञान सौख्यानि सकलत्वेन तत्त्वतः । सिद्धानां केवली वेति शेषेष्वौपमिकं वचः ॥ १९८ ॥ अभव्यात्मभिरप्राप्यमिदं जैनेन्द्रमास्पदम् । अत्यन्तमपि यत्नाद्यैः काय संक्लेशकारिभिः ॥ १९९ ॥ अनादिकालसंबद्धां विरहेण विवर्जिताम् | अविद्यागेहिनीं ते हि शश्वदाश्लिष्य शेरते ॥ २०० ॥ विमुक्तिवनिताss लेषसमुत्कण्ठापरायणाः । भव्यास्तु दिवसान् कृच्छ्रं प्रेरयंति तपः स्थिताः२०१ सिद्धिशक्तिविनिर्मुक्ता अभव्याः परिकीर्त्तिताः । भविष्यत्सिद्धयो जीवा भव्यशब्दमुपाश्रिताः २०२ जिनेन्द्रशासनादन्यशासने रघुनंदन । न सर्वरत्नयोगेऽपि विद्यते कर्मणां क्षयः ।। २०३ ।। यत्कर्म क्षपयत्यज्ञो भूरिभिर्भवकोटिभिः । ज्ञानी मुहूर्तयोगेन त्रिगुप्तस्तदपोहयेत् ॥ २०४ ॥ प्रतीतो जगतोऽप्येतत्परमात्मा निरंजनः । दृश्यते परमार्थेन यथा प्रक्षीणकर्मभिः ।। २०५ ।। गृहीतं बहुभिर्विद्धि लोकमार्गमसारकम् । परमार्थपरिप्राप्त्यै गृहाण जिनशासनम् ॥ २०६ ॥ एवं रघूत्तमः श्रुत्वा वचः साकलभूषणम् । प्रणिपत्य जगौ नाथ तारयाऽस्माद्भवादिति ॥ २०७ || भगवन्नुत्तमा मध्या उत्तमाश्वासुधारिणः । भव्याः केन विमुच्यते विधिना भववासतः ॥ २०८ ॥ उवाच भगवान् सम्यग्दर्शनज्ञानचेष्टितम् । मोक्षवर्त्म समुद्दिष्टमिदं जैनेन्द्रशासने || २०९ ॥ तत्वश्रद्धानमेतस्मिन् सम्यग्दर्शनमुच्यते । चेतनाचेतनं तत्त्वमनंतगुणपर्ययम् ॥ २१० ॥
Jain Education International
३१०
For Private & Personal Use Only
www.jainelibrary.org