________________
पद्मपुराणम्।
पंचोत्तरशतं पर्व। सुचक्रवर्तिनो माः सेंद्रा यश्च सुरा सुखम् । कालेनांतविमुक्तेन सेवते भवहेतुजम् ॥ १८५ ॥ अनंतपूरणस्यापि भागस्य तदकर्मणाम् । सुखस्य तुल्यतां नैति सिद्धानामीदृशं सुखम् ॥१८६।। जनेभ्यः सुखिनो भूपाः भूपेभ्यश्चक्रवर्तिनः । चक्रिभ्यो व्यंतरास्तेभ्यः सुखिनो ज्योतिषोऽमराः। ज्योतिभ्यो भवनावासास्तेभ्यः कल्पभुवःक्रमात्। ततो ग्रैवेयकावासास्ततोऽनुत्तरवासिनः १८८ अनंतानंतगुणतस्तेभ्यः सिद्धिपदस्थिताः । सुखं नापरमुत्कृष्टं विद्यते सिद्धसौख्यतः ॥ १८९ ।। अनंत दर्शनं ज्ञानं वीयं च सुखमेव च । आत्मनः स्वमिदं रूपं तच सिद्धेषु विद्यते ॥ १९० ।। संसारिणस्तु तान्येव कर्मोपशमभेदतः । वैचित्र्यवंति जायंते बाह्यवस्तुनिमित्ततः ॥ १९१ ॥ शब्दादिप्रभवं सौख्यं शल्यितं व्याधिकीलकैः । नवव्रणभवे तत्र सुखाशा मोहहेतुकाः ॥१९२॥ गत्मगतिविमुक्तानां प्रक्षीणक्लेशसंपदाम् । लोकशेखरभूतानां सिद्धानामसमं सुखम् ॥ १९३ ॥ यदीयं दर्शनं ज्ञानं लोकालोकप्रकाशकम् । क्षुद्रद्रव्यप्रकाशेन नैव ते भानुना समाः ॥ १९४ ॥ करस्थामलकज्ञानसभागेप्यपुष्कलम् । छद्मस्थपुरुषोत्पन्नं सिद्धज्ञानस्य नो समम् ॥ १९५ ॥ समं त्रिकालभेदेषु सर्वभावेषु केवली । ज्ञानदर्शनयुक्तात्मा नेतरः सोऽपि सर्वथा ॥ १९६ ॥ ज्ञानदर्शनभेदोऽयं यथा सिद्धेतरात्मनाम् । सुखेऽपि दृश्यतां तद्वत्तथा वीर्येऽपि दृश्यताम्॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org