________________
पद्मपुराणम् ।
पंचोत्तरशतं पर्व |
ईषत्प्राग्भारसंज्ञासौ पृथिवी शुभदर्शना । उत्तानधवलच्छत्रप्रतिरूपा शुभावहा ॥ १७२ ॥ सिद्धा यत्रावतिष्ठते पुनर्भवविवर्जिताः । महासुखपरिप्राप्ताः स्वात्मशक्तिव्यवस्थिताः ॥ १७३ ॥ रामो जगाद भगवन्तेषां विगतकर्मणाम् । संसारभावनिर्मुक्तं निर्दुःखं कीदृशं सुखम् ।। १७४ ॥ उवाच केवली लोकत्रितयस्यास्य यत्सुखम् । व्याबाधभंगदुः पाकैर्दुःखमेव हि तन्मतम् ॥१७५॥ कर्मणाऽष्टप्रकारेण परतंत्रस्य सर्वदा । नास्य संसारिजीवस्य सुखं नाम मनागपि ॥ १७६ ॥ यथा सुवर्णपिंडस्य वेष्टितस्यायसा भृशम् | आत्मीया नश्यति छाया तथा जीवस्य कर्मणा १७७ मृत्युजन्मजराव्याधिसहस्रैः सततं जनाः । मानसैश्च महादुःखैः पीडयंते सुखमत्र किम् ॥१७८॥ असिधारामधुस्वादसमं विषयजं सुखम् । दग्धचंदनवद्दिव्यं चक्रिणां सविषान्नवत् ॥ १७९ ॥ ध्रुवं परमनाबाधमुपमानविवर्जितम् । आत्मस्वाभाविकं सौख्यं सिद्धानां परिकीर्त्तितम् ॥ १८० ॥ सुप्ता किं ध्वस्तनिद्राणां नीरोगाणां किमौषधैः । सर्वज्ञानां कृतार्थानां किं दीपतपनादिना ॥ आयुधैः किमभीतानां निर्मुक्तानामरातिभिः । पश्यतां विपुलं सर्वसिद्धार्थानां किमीहया ॥ १८२ ॥ माहात्म्यसुखतृप्तानां किं कृत्यं भोजनादिना | देवेंद्रा अपि यत्सौख्यं वांछंति सततोन्मुखाः ॥ नास्ति यद्यपि तत्त्वेन प्रतिमाऽस्य तथाऽपि ते । वदामि प्रतिबोधार्थं सिद्धात्मसुखगोचरे १८४
1
Jain Education International
३०८
For Private & Personal Use Only
www.jainelibrary.org