________________
पद्मपुराणम् ।
३०७
पंचोत्तरशतं पर्व
ऐरावतं च विज्ञेयं गंगाद्याश्चापि निम्नगाः । प्रोक्तं द्विर्धातकीखंडे पुष्करार्द्धे च पूर्वकम् ॥ १५९ ॥ आर्या म्लेच्छा मनुष्याश्च मानुषाचलतोऽपरे । विज्ञेयास्तत्प्रभेदाश्च संख्यान परिवर्जिताः ॥ १६० ।। विदेहे कर्मणो भूमिर्भरतैरावते तथा । देवोत्तरकुरुर्भागे क्षेत्रं शेषाश्च भूमयः ।। १६१ ।। त्रिपल्यांतर्मुहूर्त्त तु स्थिती नृणां परावरे | मनुष्याणामिव ज्ञेया तिर्यग्योनिमुपेयुषाम् ।। १६२ ।। अष्टभेदजुषो वेद्या व्यंतराः किंनरादयः । तेषां क्रीडनकावासा यथायोग्यमुदाहृताः ॥ १६३ ॥ ऊर्ध्वं व्यंतरदेवानां ज्योतिषां चक्रमुज्ज्वलम् । मेरुप्रदक्षिणं नित्यं गतिचंद्रार्कराजकम् || १६४ || संख्येयानि सहस्राणि योजनानां व्यतीत्य च । तत ऊर्ध्वं महालोको विज्ञेयः कल्पवासिनाम् ॥ सौधर्माख्यस्तथैशानः : कल्पस्तत्र प्रकीर्त्तितः । ज्ञेयः सानत्कुमारश्च तथा माहेद्रसंज्ञकः || १६६ || ब्रह्मो ब्रह्मोत्तरो लोको लांतवश्च प्रकीर्त्तितः । कापिष्ठश्च तथा शुक्रो महाशुक्राभिधस्तथा १६७ शतारोऽथ सहस्रारः कल्पश्वानतशब्दितः । प्राणतश्च परिज्ञेयस्तत्परावारणच्युतौ ॥ १६८ ॥ नव ग्रैवेयकास्ताभ्यामुपरिष्टात्प्रकीर्त्तिताः । अहमिंद्रतया येषु परमास्त्रिदशाः स्थिताः ॥ १६९ ॥ विजयो वैजयंतश्च जयंतोऽथापराजितः । सर्वार्थसिद्धिनामा च पंचैतेऽनुत्तराः स्मृताः ॥ १७० ॥ अग्रे त्रिभुवनस्यास्य क्षेत्रमुत्तमभासुरम् । कर्मबंधनमुक्तानां पदं ज्ञेयं महाद्भुतम् ।। १७१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org