________________
पद्मपुराणम्।
३०६
पंचोत्तरशतं पर्व। ज्ञेयदृश्यस्वभावेषु परिणामः स्वशक्तितः । उपयोगश्च तद्रूपं ज्ञानदर्शनतो द्विधा ॥ १४६ ॥ ज्ञानमष्टविधं ज्ञेयं चतुर्धा दर्शनं मतम् । संसारिणो विमुक्ताश्च ते सचित्तविचेतसः ॥ १४७ ॥ वनस्पतिपृथिव्याद्याः स्थावराः शेषकास्त्रसाः । पंचेंद्रियाः श्रुतिघ्राणचक्षुस्त्वग्रसनान्विताः १४८ पोतांडजजरायूनामादितो गर्भसंभवः । देवानामुपपादस्तु नारकाणां च कीर्तितः ॥ १४९ ॥ संमूर्छनं समस्तानां शेषानां जन्मकारणम् । योन्यस्तु विविधाः प्रोक्ता महादुःखसमन्विताः ॥
औदारिकं शरीरं तु वैक्रियाऽऽहारके तथा । तैजसं कार्मणं चैव विद्धि सूक्ष्मं परं परम् ॥१५१॥ असंख्येयं प्रदेशेन गुणतोऽनंतके परे । आदिसंबंधमुक्तश्च चतुर्णामेककालता ।। १५२ ॥ जंबूद्वीपमुखा द्वीपा लवणाद्याश्च सागराः । प्रकीर्तिताः शुभा नाम संख्यानपरिवर्जिताः ॥१५३।। पूर्वाद्विगुणविष्कभाः पूर्वविक्षेपवर्तिनः । वलयाकृतयो मध्ये जंबूद्वीपः प्रकीर्तितः ॥ १५४ ॥ मेरुनाभिरसौ वृत्तो लक्षयोजनमानभृत् । त्रिगुणं तत्परिक्षेपादधिकं परिकीर्तितम् ।। १५५॥ पूर्वापरायतास्तत्र विज्ञेयाः कुलपर्वताः । हिमवांश्च महाज्ञेयो निषधो नील एव च ॥ १५६ ।। रुक्मी च शिखरी चेति समुद्रजलसंगताः । वास्यान्येभिर्विभक्तानि जंबूद्वीपगतानि च ॥१५७॥ भरताख्यामदं क्षेत्रं ततो हैमवतं हरिः । विदेहो रम्यकारख्यं च हेरण्यवतमेव च ॥ १५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org