________________
पद्मपुराणम् ।
पंचोत्तरशतं पर्व।
गुरुलोकं समुल्लंघ्य तदा वाक्पटुना सता । मांस निर्दोषमित्युक्तं यत्ते तत्क्वाधुना गतम् ॥१३३॥ मांसेन बहुभेदेन मधुना च पुरा कृतम् । श्राद्धं गुणवदित्युक्तं यत्ते तत्वाधुना गतम् ॥ १३४ ॥ इत्युक्त्वा वैक्रियैरन्यैराहत्याहत्य निष्ठुरम् । कुर्वाणाः कृपणं चेष्टाः खादन्ते स्वशरीरकम् ॥१३॥ स्वप्नदर्शननिःसारां स्मारयित्वा च राजताम् । तजातैरेव पीड्यंते विस्वंतो विडंबनैः ।। १३६ ॥ एवमादीनि दुःखानि जीवाः पापकृतो नृप । निमेषमप्यविश्रान्ता लभंते नारकक्षितौ ॥१३७॥ तस्मात्फलमधर्मस्य ज्ञात्वेदमतिदुःसहम् । प्रशांतहृदयाः संतः सेवध्वं जिनशासनम् ॥ १३८ ॥ अनंतरमधोवासा ज्ञाता भवनवासिनाम् । देवारण्यार्णवद्वीपास्तथा योग्याश्च भूमयः ॥ १३९ ॥ पृथिव्यापश्च तेजश्च मातरिश्वा वनस्पतिः । शेषास्त्रसाश्च जीवानां निकायाः षट् प्रकीर्तिताः॥१४०॥ धर्माधर्मवियत्कालजीवपुगलभेदतः । षोढा द्रव्यं समुद्दिष्टं सरहस्य जिनेश्वरैः ॥ १४१ ॥ सप्तभंगीवनोमार्गः सम्यक्प्रतिपदं मतः । प्रमाणं सकलादेशो नयोऽवयवसाधनम् ॥ १४२ ॥ एकद्वित्रिचतुःपंचहृषीकेष्वविरोधतः । सत्त्वं जीवेषु विज्ञेयं प्रतिपक्षसमन्वितम् ॥ १४३ ।। सूक्ष्मवादरभेदेन ज्ञेयास्ते च शरीरतः । पर्याप्ता इतरे चैव पुनस्ते परिकीर्तिताः ॥ १४४ ॥ भन्याभव्यादिभेदं च जीवद्रव्यमुदाहृतम् । संसारे तवयोन्मुक्ताः सिद्धास्तु परिकीर्तिताः १४५
३-२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org