________________
पद्मपुराणम् ।
३०३
पंचोत्तरशतं पर्व । प्रशस्तदर्शनज्ञाननंदनं भव्यसंमतम् । वस्तुतत्त्वमिदं तेन प्रोक्तं परमयोगिना ॥ १०७ ॥ अनंतालोकखांतस्थो मृदंगद्वयसनिमः । लोको व्यवस्थितोऽधस्तात्तिर्यगूद्धव्यवस्थितः ॥१०८॥ त्रैविध्येनामुना तस्य ख्याता त्रिभुवनाभिधा । अधस्तान्मदरस्याद्रविज्ञेयाः सप्त भूमयः ॥१०९॥ रत्नाभा प्रथमा तत्र यस्यां भवनजाः सुराः । षडधस्तात्ततः क्षोण्यो महाभयसमावहाः ॥११०।। शकेरावालुकापंकधूमध्वांततमोनिभाः । सुमहादुःखदायिन्यो नित्यांधध्वान्तसंकुलाः ॥ १५१॥ तप्तायास्तलदुःस्पर्शमहाविषमदुर्गमाः । शीतोग्रवेदनाः काश्चिद्वसारुधिरकर्दमाः ॥ ११२ ॥ श्वसपेमनुजादीनां कुथितानां कलेवरैः । सन्मिश्री यो भवेद्धस्तादृशस्तत्र कीर्तितः ॥११३ ॥ नानाप्रकारदुःखौघकारणानि समाहरन् । वाति तत्र महाशब्दः प्रचंडाइंडमारुतः ॥११४ ॥ रसनस्पर्शनासक्ता जीवास्तत्कौ कुर्वते । गरिष्ठा नरके येन पतंत्यायसपिंडवत् ॥ ११५॥ हिंसावितथचौर्यान्यस्त्रीसंगादनिवर्तनाः । नरकेषूपजायन्ते पापभारगुरूकृताः ॥ ११६ ।। मनुष्यजन्म संप्राप्य सततं भोगसंगताः । जनाः प्रचंडकर्माणो गच्छन्ति नरकावनिम् ॥ ११७॥ विधाय कारयित्वा च पापं समनुमोद्य च । रौद्रात्तेप्रवणाजीवा यान्ति नारकवीजताम् ॥११८॥ वज्रोपमेषु कुड्येषु निःसंधिकृतपारणाः । नारकेनाग्निना पापा दह्यन्ते कृतविस्वराः ॥ ११९ ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org