SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम। पंचोत्तरशतं पर्व। विधाय चांजलिं भक्त्या कृत्वा शान्तः प्रदक्षिणाम् । त्रिविधं गृहिणां नाथोऽनंसीनाथमवेश्मनाम् ॥ मुनीन्द्रदेहजच्छायास्तिमितांशुकिरीटिकाः । वैलक्ष्यादिव चंचद्भिः कुंडलैः श्लिष्टगंडकाः ॥१५॥ भावार्पितनमस्काराः करकुड्मलमस्तकाः । मानवेन्द्रः समं योग्यमुपविष्टाः सुरेश्वराः॥९६ ॥ चतुर्भेदजुषो देवा नानालंकारधारिणः । अलक्ष्यंत मुनीन्द्रस्य वेरिव मरीचयः ॥ ९७ ॥ रराज राजराजोऽपि रामोत्यंतदूरगः । मुनेः सुमेरुकूटस्य पार्श्वे कल्पतरुयथा ॥९८॥ लक्ष्मीधरनरेन्द्रोऽपि मौलिकुंडलराजितः । विद्युत्त्वानिव जीमूतः शुशुभेतिकपर्वतः ॥ ९९ ॥ शत्रुघ्नोऽपि महाशत्रुभयदानविचक्षणः । द्वितीय इव भाति स्म कुबेरश्वारुदर्शनः ॥१०॥ गुणसौभाग्यतूणीरौ वीरौ तौ च सुलक्षणौ । सूर्याचंद्रमसौ यद्वद्रेजतुर्लवणांकुशौ ॥ १०१॥ बाह्यालंकारमुक्ताऽपि वस्त्रमात्रपरिग्रहा । आर्या रराज वैदेही रविमूर्येव संयता ॥ १०२॥ मनुष्यनाकवासेषु धर्मश्रवणकांक्षिषु । धरण्यामुपविष्टेषु ततो विनयशालिषु ॥ १०३॥ धीरोऽभयनिनादाख्यो मुनिः शिष्यगणाग्रणीः । संदेहतापशान्त्यर्थ पप्रच्छ मुनिपुंगवम् ॥१०४॥ विपुलं निपुणं शुद्धं तत्त्वार्थ मुनिबोधनम् । ततो जगाद योगीशः कर्मक्षयकरं वचः ॥ १०५॥ रहस्यं तत्तदा तेन विबुधानां महात्मनाम् । कथितं तत्समुद्रस्य कणमेकं वदाम्यहम् ॥१०६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy