________________
पंचोत्तरशतं पर्व |
पद्म मौक्तिकगशीर्षतालéतानिलादिभिः । संप्राप्तस्पष्टचैतन्यस्तद्दिङ्न्यस्तनिरीक्षणः ॥ ८१ ॥ अष्ट्वा राघवः सीतां शुन्यीभूतदशांशकः । शोककोपकपायात्मा समारुह्य महागजम् ॥ ८२ ॥ समुच्छ्रितसितच्छत्रचामरोत्करवीजितः । नरेन्द्रैरिन्द्रवद्देवैर्वृतो हस्तितलायतः || ८३ ॥ प्रौढकोकनदच्छायः क्षणसंवृतलोचनः । उदात्तनिनदोऽवोचद्वचोऽपि निजभीतिदम् ॥ ८४ ॥ प्रियस्य प्राणिनो मृत्युर्वरिष्ठो विरहस्तु न । इति पूर्वं प्रतिज्ञातं मया निश्चितचेतसा ।। ८५ ।। यदि तक वृथा देवैः प्रातिहार्यमिदं शठैः । वैदेह्या विहितं येन तयेदं समनुष्ठितम् ॥ ८६ ॥ लुप्तकेशीमपीमां मे यदि नार्पयत द्रुतम् । अद्य देवानदेवान्वः करोमि च जगद्वियत् ॥ ८७ ॥ कथं मे हियते पत्नी सुरैर्न्यायव्यवस्थितैः । पुरस्तिष्ठतु मे शस्त्रं गृह्णन्तु क्त्र नु ते गताः ॥ ८८ ॥ एवमादिकृतचेष्टो लक्ष्मणेन विनीतिना । सांख्यमानो बहूपायं प्राप्तः सुरसमागमम् ॥ ८९ ॥ ज्वलज्ज्वलनतोदीप्तिं विभ्राणं परमर्द्धिकम् । वहतं दहनं देहं कलुषस्योपसेदुषम् ॥ ९० ॥ विबुद्धेष्वपि राजतं केवलज्ञानतेजसा । वीतजीमूतसंघातं भानुर्विवमिवोदितम् ॥ ९१ ॥ चक्षुः कुमुद्रतीकान्तं चंद्रं वा वीतलांछनम् । परेण परिवेषेण वृत्तं देहस्य तेजसा ॥ ९२ ॥ तमालोक्य मुनिश्रेष्ठं सद्योगाद्भूष्टमानताम् । अवतीर्य च नागेन्द्राज्जगामास्य समीपताम् ॥९३॥
पद्मपुराणम् ।
Jain Education International
३०१
For Private & Personal Use Only
www.jainelibrary.org