________________
पद्मपुराणम् ।
३००
पंचोत्तरशतं पर्व |
तेषु तेषु प्रदेशेषु भवतीचित्तहारिषु । क्रियतां रमणं कांते मया वचनकारिणा ॥ ६८ ॥ विद्याधरवरस्त्रीभिः सुरस्त्रीभिरिवावृता । मनस्विनि भजैश्वर्य सद्यः सिद्धमनीषिता ॥ ६९ ॥ दोषान्धिमग्नकस्यापि विवेकरहितस्य मे । उपसन्नस्य सुश्लाघ्ये प्रसीद क्रोधमुत्सृज || ७० ॥ ततो जगाद वैदेही राजन्नैवास्मि कस्यचित् । कुपिता किं विषादं त्वमीदृशं समुपागतः ॥ ७१ ॥ न कश्चिदत्र ते दोषस्तत्रो जानपदो न च । स्वकर्मणा फलं दत्तमिदं मे परिपाकिता ॥ ७२ ॥ बलदेव प्रसादात्ते भोगा मुक्ताः सुरोपमाः । अधुना तदहं कुर्वे जाये स्त्री न यतः पुनः ॥ ७३ ॥ एतैर्विनाशिभिः क्षुद्रैरवसन्नैः सुदारुणैः । किं वा प्रयोजनं भोगेमूढमानव सेवितैः ॥ ७४ ॥ योनिलक्षाध्वसंक्रांत्या खेदं प्राप्ताऽस्म्यनुत्तमम् । साहं दुःखक्षयाकांक्षा दीक्षां जैनेश्वरीं भजे ॥ ७५ ॥ इत्युक्त्वाऽभिनवाशोकपल्लवोपमपाणिना । मूर्द्धजान् स्वयमुद्धृत्य पद्मायाऽर्पयदस्पृहा || ७६ ।। इंद्रनीलद्युतिच्छायान्सुकुमारान्मनोहरान् । केशान्वीक्ष्य ययौ मोहं रामोऽपप्तच्च भूतले ॥ ७७ ॥ यावदाश्वासनं तस्य प्रारब्धं चंदनादिना । पृथ्वीमत्यार्यया तावदीक्षिता जनकात्मजा || ७८ ॥ ततो दिव्यानुभाव साविघ्नपरिवर्जिता । संवृत्ता श्रमणा साध्वी वस्त्रमात्र परिग्रहा ।। ७९ ।। महाव्रतपवित्रांगा महासंवेगसंगता । देवासुरसमायोगं ययौ चोद्यानमुत्तमम् ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org