________________
पद्मपुराणम् ।
पंचोत्तरशतं पर्व । श्रीमज्जनकराजस्य तनया परमोदया । श्रीमतो बलदेवस्य पत्नी विजयतेतराम् ।। ५५ ॥ अहो चित्रमहो चित्रमहो शीलं सुनिर्मलम् । एवं स्वनः समुत्तस्थौ रोदसी प्राप्य सर्वतः ॥५६॥ ततोऽकृत्रिमसावित्रीस्नेहसंमनमानसौ । ती. ससंभ्रमौ प्राप्ती जानकी लवणांकुशौ ।। ५७ ॥ स्थितौ च पार्श्वयोः पद्मपुत्रप्रीतिप्रवुद्धया । समाश्वास्य समाघातौ मस्तके प्रणतांगकौ ॥ ५८ ॥ जांवूनदमयीयष्टिमिव शुद्धां हुताशने । अत्युत्तमप्रभाचक्रपरिवारितविग्रहा ॥ ५९ ॥ मैथिली राघवो वीक्ष्य कमलालयवासिनीम् । महानुरागरक्तात्मा तदंदिकमुपागमत् ॥ ६० ॥ जगौ च देवि कल्याणि प्रसीदोत्तमपूजिते । शरत्संपूर्णचंद्रास्ये महाद्भुतविचेष्टिते ॥ ६१ ॥ कदाचिदपि नो भूयः करिष्याम्याग इंदृशम् । दुःखं वा ते ततोऽतीतं दोषं मे साध्वि मषेय ।।६२॥ योषिदष्टसहस्राणामपि त्वं परमेश्वरी । स्थिता मूर्वि ददस्वाज्ञां मय्यपि प्रभुतां कुरु ॥ ६३ ।। अज्ञानप्रवणीभूतचेतसा मयकदृशम् । किंवदंतीभयात्सृष्टं कष्टं प्राप्तासि यत्सति ॥ ६४ ॥ सकाननवनामेतां सखेचरजनां महीम् । समुद्रांतां मया साकं यथेष्टं विचर प्रिये ॥ ६५ ।। पूज्यमाना समस्तेन जगता परमादरम् । त्रिविष्टपसमान् भोगान् भावय स्वमहीतले ॥ ६६ ॥ उद्यद्भास्करसंकाशं पुष्पकं कामगत्वरम् । आरूढा मेरुसानूनि पश्य देवि समं मया ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org